________________
.२९४
उत्तराध्ययन-मूलसूत्रम्-२-३६/१७३० "गृहइ आयसहावं घायइ य गुणे परस्स संतेवि ।
चोराव्व सव्वसंकी गूढायारो वितहभासि ।।"त्ति किल्बिपिकीभावनां करोति । इदानीं विचित्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽपि यत्कुर्वताऽऽसुरी कृता भवति तदाह-अनुबद्ध:--सन्ततः, कोऽर्थः?-अव्यवच्छिन्नो रोषस्य-क्रोधस्य प्रसरोविस्तारोऽस्येति अनुबद्धरोपप्रसरः, सदा विरोधशीलतया पश्चादननुतापितया क्षमणादावपि प्रसत्त्यप्राप्त्या वेत्यभिप्राय:, तथा चोक्तम्
___ "निच्चं वोग्गहसीला काऊण न यानुतप्पए पच्छा ।
न य खामिओ पसीयइ अवराहीणं दवेण्हपि॥" 'तथे'ति समुच्चये 'च:' पूरणे निमित्तमिह ज्ञेयपरिच्छित्तिकारणं, तच्चातीतादित्रिविधकालभेदात्रिधा, उक्तं हि
"तिविहं होइ निमित्तं तीयपडुप्पन्नऽनागयं चेव।
तेन विना उ न नेयं नज्जइ तेणं निमित्तं तु ।।" तद्विपये भवति' जायते 'प्रतिसेवी' इत्यवश्यंप्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात्, 'एताभ्याम्' अनन्तरोक्ताभ्याम् 'आसुरियं'ति आसुरीं भावनां करोति ।
शस्यतेऽनेनेनि शस्त्रं-खङ्गारिकादि तस्य ग्रहणं-स्वीकरणमुपलक्षणत्वादस्यात्मनि वधार्थ व्यापारणं शस्त्रग्रहणं, वेवेष्टि-व्याप्नोति झगित्यात्मानमिति विषं-तालपुटादि तस्य भक्षणम्अभ्यवहरणं विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं' दीपनमात्मन इति गम्यते, जले प्रवेशो-निमज्जनं जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचार:शास्त्रविहितो व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथाऽनाचारभाण्डं तस्य सेवाहास्यमोहादिभिः परिभोगाऽनाचारभाण्डसेवा, गम्यमानत्वादेतानि कुर्वन्तो यतयः, किमित्याहजन्ममरणान्युपचारात्तन्निमित्तकर्माणि 'बध्नन्ति' आत्मना श्लेषयन्ति, संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात्, अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणम्
"उम्मग्गदेसओ मग्गनासओ मग्गविप्पडिवत्ती।
मोहेण य मोहित्ता संमोहं भावणं कुणइ ।।"त्ति, ननु पूर्वं तद्विधदेवगामित्वं भावनाफमलमुक्तमिह त्वन्यदेवास्या इति न कथं विरोधः?, उच्यते, अनन्तरफलमाश्रित्य तदुदितमिदं [दमेव चूां दृश्यते, तत्रैव जीवेत्यादि] तु परम्पराफलं सर्वभावनानामिति भावनार्थमित्थमुपन्यासः, तथा चोक्तम्
"एयाओ भावनाओ भाविता देवदुग्गई जंति ।
तत्तो य चुया संता परिति भवसागरमनंतं ।।" इति सूत्रपञ्चकार्थः॥ इह च देववक्तव्यताऽनन्तरसूत्रकदम्बस्थाने सूत्रद्वयमेव चूां दृश्यते, तत्रैकं "जीवमजीवे"त्यादि प्राग्वद् व्याख्यातमेव, तथा
"पसत्थसज्झाणोवगए, कालं किच्चा न संजए । सिद्धे वा सासए भवति, देवे वावि महड्डिए॥"त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org