________________
२९५
अध्ययन-३६,[ नि. ५५९] . सम्प्रत्युपसंहारद्वारेण शास्त्रमाहात्म्यं ख्यापयितुमाह मू. (१७३१) इति पाउकरे बुद्धे, नायए परिनिव्वुए।
छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए । तिबेमि। वृ. 'इति:' उपदर्शने 'इति' इत्यनन्यतरमुपवर्णितान् 'पाउकरे'त्ति सूत्रत्वात् 'प्रादुप्कृत्य' कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य, कोऽर्थः? -प्रज्ञाप्य, किमित्याह-'परिनिर्वृतः' निर्वाणं गत इति सम्बन्धनीयम्, कीदृशः सन् क इत्याह-'बुद्धः' केवलज्ञानादवगतसकलवस्तुतत्त्वः 'ज्ञातको ज्ञातजो वा-ज्ञातकुलसमुद्भवः, स चेह भगवान् वर्द्धमानस्वामी 'पत्रिंशद्' इति पत्रिंशत्सङ्ख्या उत्तराः - प्रधाना अधीयन्त इत्यध्याया- अध्ययनानि तत उत्तराश्च तेऽध्यायाश्चोत्तराध्यायास्तान्-विनयश्रुतादीन् 'भवसिद्धियसंमए'त्ति भवसिद्धिका-भव्यास्तेपां समितिभृशं मता-अभिप्रेता भवसिद्धकसंमतास्तान्, पठन्ति च भवसिद्धीयसंवुडे'त्ति भवे-तस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिक: स चासौ संवृतश्चाश्रवनिरोधेन भवसिद्धिकसंवृतः, ज्ञातविशेणमेतत, अथवा 'पाउकरे'त्ति 'प्रादुरकापीत' प्रकाशितवान, शेषं पूर्ववत् नवरं 'परिनिर्वृतः' क्रोधादिदहनोपशमतः समन्तात्स्वस्थीभूतः, एतेन "सत्यानृतत्वसंदेहै:, सर्वमेव वचस्त्रिधा" इति प्रसिद्धेस्त्रैविध्यसम्भवेऽपिवचनरूपत्वेनोत्तराध्ययनानां वक्तृदोषहेतुकत्वादनृतत्वसन्देहयोर्वक्तृदोषाबावख्यापनेनैकान्तसत्यत्वलक्षणं माहात्म्यमाहेति सूत्रार्थः ।। नयुक्तिकारोऽप्येतन्माहात्म्यख्यापनायाह
अध्ययनं-३६ समाप्तम् नि. [५६०] जे किर भवसिद्धीया परित्तसंसारिआ य भविआ य ।
ते किर पढंति धीरा, छत्तीसं उत्तरज्झयणे ।। नि. [५६१] जे हुंति अभवसिद्धीया गर्थिअसत्ता अनंतसंसारा।
ते संकिलिट्टकम्मा अभविय उत्तरज्झाए॥ वृ.'ये' इत्यनिर्दिष्टनिर्देशे 'किल' इति सम्भावने 'भवसिद्धिकाः' भव्याः परीतः- प्राग्वत् परिमित: स चासौ संसारश्च तद्वन्तः परीत्तसंसारिकाः 'अत इनिठना'विति मत्वर्थीयष्ठन्, कोऽर्थः? - तथाभव्यत्वाक्षिप्तप्रत्यासत्रीभूतमुक्तयः भव्याः' सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इति योऽर्थः, उभयत्र 'च: समुच्चये इति, व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव, 'किल' इति परोक्षाप्तसूचकः, 'पठन्ति' अधीयते धीराः प्राग्वत्, कानि? इत्याह-'छत्तीसं'ति षट्त्रिंशद् 'उत्तराध्ययनानि' विनय श्रुतादीनि, भवसिद्धिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः सद्भावेन निश्चयतस्तत्पाठसम्भवः, अन्येषां व्यवहारत एवेत्येवमभिधानम्॥
उक्तमेवार्थविनेयानुग्रहाय व्यतिरेकत आह-ये भवन्ति अभवसिद्धयः' अभव्या: प्राग्वद्वचनव्यत्ययः, ग्रन्थि:-उक्तरूपस्तद्योगाद्ग्रन्थयस्त एव ग्रन्थिकास्ते च ते सत्त्वाश्च ग्रन्थिकसत्त्वाः, अभिन्नग्रन्थय इत्यर्थः, तथाऽनन्तः-अपर्यवसितः संसार एषामित्यनन्तसंसारा-ये न कदाचिन्मुक्तिसूखमवाप्स्यन्ति अभव्याः "भव्वावि ते अनंते" त्यादिवचनतो भव्या वा ते संक्लिष्टानि-अशुभानि कर्माणि-ज्ञानावरणीयादीनि एषामिति संक्लिष्टकर्माण इत्याह,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org