________________
अध्ययनं-३६,[ नि. ५५९]
२९३ कान्दी तां भाव्यते-आत्मसान्नीयतेऽनयाऽऽत्मेति भावना- तद्भावाभ्यासरूपा तां करोति' विधत्ते, एतदनुसारेणोत्तरत्रापि भावनीयम्।
मन्त्रा:-प्रागुक्तरूपास्तेषामायोगो- व्यापारणं मन्त्रायोगस्तं कृत्वा' विधाय, यदिवा 'मंतायोग'ति सूत्रत्वान्मन्त्राश्च योगाश्च-तथाविधद्रव्यसम्बन्धा मन्त्रयोगं तत् कृत्वा' व्यापार्य 'भूत्या' भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थं वसत्यादेः परिवेष्टनं भूतिकर्म, यथोक्तम्"भूईए मट्टियाए व सुत्तेण व होइ भूइकम्मं तु!
वसहीसरीरभंडगरक्ख"त्ति, चशब्दात्कौतुकादि च जे पउंजंति' प्राकृतत्वाद्यः प्रयुङ्क्ते, किमर्थं ?, सात-सुखं रसा-माधुर्यादयः ऋद्धि:- उपकरणादिसम्पदेता हेतवो-निमित्तानि यस्मिस्तत्सातरसद्धिहेतुः, कोऽभिप्रायः ?-साताद्यर्थम्, 'अभियोगं'ति आभियोगी भावनां करोति, इह च सातरसद्धिहेतोरित्यभिधानं नि:- स्पृहस्यापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम्, उक्तं हि
"एयाणि गारवट्ठा कुणमानो आभियोगियं बंधे।
बीयं गारवरहिओ कुव्वइ आराहगो चेव॥" "ज्ञानस्य" श्रुतज्ञानादेः 'केवलिनां' केवलज्ञानवतां धर्मोपदेष्टा च-आचार्यस्तस्य च सङ्ग प्रतीतः साधवश्च सङ्घसाधवस्तेषामवर्णवादीति सम्बन्धः, तथाऽवर्ण:-अश्लाघात्मकः, सचार्य श्रुतज्ञानस्य-पुनः पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ, मोक्षाकिारिणां च किं ज्योतिर्योनिपरिज्ञानेनेत्यादि भाषते, उक्तश्च
.."काया वया यते च्चिय ते चेव पमाय अप्पमाया य ।
मोक्खाहिगारियाणं जोइसजोणीहि किं च पुणो? ॥" - केवलिनां च किमेषां ज्ञानदर्शनोपयोगी क्रमेण भवत उत युगपत् ?, यदि तावत्क्रमेण तदा ज्ञानकाले नदर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपत्तत एककालत्वाद् द्वयोरप्यैक्यापत्तिः, उक्तश्च
- "एगतरसमुप्पाए अन्नोऽन्नावरणया दुवेण्हंपि।
केवलदंसणणाणाणमेगकाले य एगत्तं ॥" धर्माचार्यस्य जात्यादिभिरधिक्षेपणादि, उक्तश्च--
- "जच्चाइहि अवन्नं विहसइ वट्टइ नयावि उववाए।
अहिओ छिद्दप्पेही पगासवादी अनणुकूलो।" सङ्घस्य च-बहवः श्वशृगालादिसङ्घास्तत्कोऽयमिह सङ्घः?, साधूनां च-नामी परस्परमपि सहन्ते, तत एव देशान्तरयायिनः, अन्यथा त्वेकत्रैवसंहत्या तिष्ठेयुरत्वरितगतयो-मन्दगतयस्ततो बकवृत्तिरियमेषामित्यादि, यथोक्तम्
"अविसहणाऽतुरियगती अनाणुवित्तीय अवि गुरूणंपि।
खणमित्तपीइरोसा गिहिवच्छलगा य संजयग ।।"त्ति, एवंविधमवर्णं वदितुम्-अभिधातुं शीलमस्येत्यवर्णवादी, माया-शाठ्यमस्त स्वस्वभावविनिगृहनादिनाऽस्तीति मायी, यथोक्तम्Jain Education International
For Private & Personal Use Only
www.jainelibrary.org