SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ २९२ उत्तराध्ययन-मूलसूत्रम्-२.३६/१७२५ भिरालोचनादातृणामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततः 'गुणग्गाहियत्ति गुणग्राहिणश्च उपबुंहणार्थं परेपां सम्यग्दर्शनादिगुणग्रहणशीला: 'एएण कारणेण'न्ति एतैः' अनन्तरमेव विशेषणतयोपात्तैर्बह्वागमविज्ञानत्वादिभिः 'कारणैः' हेतुभिः 'अर्हाः' योग्या भवन्त्याचार्यादय इति गम्यते 'आलोचनां' विकटनामर्थात्परैर्दीयमानां श्रोतुम्' आकर्णयितुम्, एते ह्यालोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते, व्यत्ययश्च सर्वत्र प्राग्वदिति सूत्रार्थः ।। इत्थमनशनस्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य सम्प्रति कन्दर्पादिभावनानां यत्परिहार्यत्वमुक्तं तत्र यत्कुर्वता ता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञातस्यायमिति ज्ञापनार्थमाहमू.(१७२६) कंदप्पकोकुईया तह सीलसहावहासविगहाहि । विम्हावितो य परं कंदप्पं भावनं करइ ।। मू.(१७२७) मंताजोगं काउं भूईकम्मं च जे पउंति । · सायरसइडिहेउं अभिओगं भावनं कुणइ। मू. (१७२८) नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं। माई अवनवाई किब्धिसियं भावनं कुणइ ।।. मू. (१७२९) अनुबद्धरोसपसरो तह य निमित्तमि होइ पडिसेवी। एएहि कारणेहिं आसुरियं भावनं कुणइ ।। मू. (१७३०) सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य। अनयारभंडसेवी जम्मणमरणाणि बंधति ।। वृ.'कंदप्पकोकुईया' इति, कन्दर्पः-अट्टहासहसनम् अनुभृतालापाश्च गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपा: कामकथोपदेशप्रशंसाश्च कन्दर्पो, यत उक्तम् "कहकहकहस्स हसणं कंदप्पो अन्हिया य संलावा। . कंदप्पकहाकहणं कंदप्पुवएससंसा य॥" कौकुच्चद्विधा-कायकौक्रुच्यं वाक्कौक्रुच्यं च, तत्र कायकौक्रुच्यं यत्स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, उक्तश्च "भुमनयनदसरच्छएहिं करचरणकनमाईहिं। __तं तं करेइ तह तह हसइ परो अत्तणा अहसं।" यत्तु तज्जल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तद्वाक्कक्रुिच्यम्, उक्तं हि __ "वायाए कुक्कुइओ तं जंपइ जेन हस्सए अनो। नाणाविहजीवरुए कुव्वइ मुहतूरए चेव॥" ततः कन्दर्पश्च कोक्रुच्यं च कन्दर्पकौक्रुच्ये कुर्वनिति शेषः 'तह'त्ति येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च-परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं हसनं च-अट्टहासादि विकथाश्च-परविस्मापकविविधोल्लापरूपा: शीलस्वभावहसनविकथास्ताभिः 'विस्मापयन' सविस्मयं कुर्वन 'परम्' अन्यं 'कंदप्पं"ति कन्दर्पयोगात्कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियमुक्तानीत्या तेषूत्पत्तिनिमित्ततया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy