________________
अध्ययनं-३६,[ नि. ५५९]
मिच्छासूत्रं प्राग्वत्, ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमनत्वादितल्लक्षणाभिधानादर्थत उक्तमेवेति, अनोच्यते, नैवं, विशेषज्ञापनार्थत्वादस्य,
"पुव्वभणियं तु पुच्छा जं भण्णति तत्थ कारणं बैंति।
पडिसेहो य अनुन्ना करण (हेउ) विसेसोवलंभा वा।।" विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि सामान्येनैतद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाद्यभिचार्येवेदं भवेदिति । इह चाद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपानर्थस्य निबन्धनत्वमुक्तमर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणानर्थस्य तृतीयेन सम्यग्दनिरक्तत्वादीनां सुलभबोध्यात्मकार्थस्य चतुर्थेन उक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनमिति सूत्रचतुष्टयार्थः ।।
अन्यच्च-जिनवचनाराधनामूलमेव सकलं संलेखनादि श्रेयोऽतस्तत्रैवाऽऽदरख्यापनायान्वयव्यतिरेकाभ्यां तन्माहात्म्यमाहमू.(१७२३) जिनवयणे अनुरत्ता जिनवयणं जे करेंति भावेणं।
अमला असंकिलिट्ठा ते हंति परित्तसंसारा॥ मू.(१७२४) बालमरनाणि बहुसो अकाममरनाणि चेव बहुयाणि।
. मरिहति ते वराया जिनवयणं जे न याणंति ।। वृ.जिना इहार्थात्तीर्थकृतस्तेषामुच्यत इति वचनम्-आगमो जिनवचनं तस्मिन् ‘अनुरक्ताः' सततं प्रतिबद्धाः, तथा 'जिनवचनम्' इति वाच्यवाचकयोरभेदोपचाराज्जिनवचनाभिहितमनुष्ठानं ये 'कुर्वन्ति' अनुतिष्ठन्ति भावेन' आन्तरपरिणामेन न तु बहिर्वृत्त्यैव तत एवाविद्यमानो मल इति बावमलस्तदनुष्ठानमालिन्यहेतुमिथ्यात्वादिरेषामित्यमलाः, तथा 'असंक्लिष्टाः' रागादिसङ्क्लेशरहितास्ते भवन्ति' जायन्ते परितः-समस्तदेवादिभवाल्पतापादनेन समन्तात्खण्डित: परिमित इतियावत् स चासौ संसारश्च स विद्यते येषां तेऽमी परीतसंसारिणः-कतिपयभवाभ्यन्तरमुक्तिभाज इति योऽर्थः, सूत्रे च प्राकृतत्वाद्वचनव्यत्ययः । ___ 'बालमरणैः' विषभक्षणोद्वन्धननिबन्धनैः 'बहुशः' अनेकधा 'अकाममरणानि' यान्यत्यन्तविषयगृध्नुत्वेनानिच्छतां भवन्ति तैश्च, उभयत्र सुब्व्यत्ययः प्राग्वत्, ‘एव चेति पूरणे 'बहूनि' अनेकानि मरिष्यन्ते ते 'वराकाः' बहुदुःखभाजनतयाऽनुकम्पनीयाः 'जिनवचनम्' उक्तरूपं ये 'न जानन्ति' नावबुध्यन्ते ज्ञानफलत्वादनुष्ठानस्य न चानुतिष्ठन्तीति सूत्रद्वयार्थः ।।। .. यतश्चैवमतो जिनवचनं भावत: कर्त्तव्यं, तद्भावकरणं चालोचनया, सा च न तच्छ्रवणान्ि विना, ते च न हेतुव्यतिरेकेणेति यैर्हेतुभिरमीभवन्ति तानाहमू.(१७२५) बहु आगमविनाणा समाहिउप्पायगा य गुणगाही।
एएण कारणेणं अरिहा आलोयणं सोउं॥ वृ. बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्थतया वा स चासावागमश्च-श्रुतं बह्वागमस्तस्मिन् विशिष्टज्ञानम्-अवगम एषामिति बह्वागमविज्ञानाः 'समाहि'त्ति समाधे:-उक्तरूपस्योत्पादकाजनकाः, किमुक्तं भवति?-देशकालाशयादिविज्ञतया समाधिमेव मधुरगम्भीरभणितिप्रभृति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org