________________
अध्ययनं - ३६, [ नि. ५५९]
२५३
अनुमानतस्त्वितरथाऽपि द्रव्यस्य पर्यायविकलस्यासम्भवाद्गम्यन्त एवेति तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाहमू. ( १४७४ )
खंधा य खंधदेसाय, तप्पएसा तहेव य । परमाणुणो अबोद्धव्वा, रूविनो अ चउव्विहा ॥
बृ. स्कन्दन्ति- शुप्यन्ति धीयन्ते च-पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः 'च: ' समुच्चये स्कन्धानां देशा-भागाः स्कन्धदेशाः चः प्राग्वत्, तेषां स्कन्धानां प्रदेशानिरंशा भागास्तत्प्रदेशाः ‘तथैव चे 'ति समुच्चये परमाश्च तेऽणवश्च परमाणवः - निर्विभागद्रव्यरूपा: ‘च:’ समुच्चये 'बोद्धव्या: ' अवगन्तव्या रूपिण: 'च: ' पुनरर्थे ततो रूपिण: पुन: 'चतुर्विधाः ' चतुष्प्रकाराः ॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्च किं लक्षणमित्याह- 'एकत्वेन' समानपरिमतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेष:, के एवम् ? इत्याह-स्कन्धः चस्य भिन्नक्रमत्वात्परमाणवश्च, स्कन्धा हि संहतानेकपरमानुरूपाः, परमाणवश्च परमाण्वन्तरैरसंहतिभाजः ॥
अथवा उक्तन्यायतो द्वैविध्ये कथममी स्कन्धाः परमाणवश्च जायन्ते ? इत्याह- 'एगत्तेण' सूत्रार्द्धम्, एकत्वेन द्वयोश्च त्रयाणां यावदनन्तानामनन्तानन्तानां च पृथग्भूतपरमाणूनामन्योऽन्यसङ्गाततो द्विप्रदेशिकत्वाद्यात्मकसमानपरिणतिरूपैकभावेन, तथा 'पृथक्त्वेन च तत्रैकत्वेन कैश्चिदणुभिः संहन्यमानतयैकपरिणतिरूपेण पृथक्त्वेन च तत्समय एव केषाञ्चिदणूनां विचटनाद्भेदात्मकेन 'स्कन्धाः ' द्विप्रदेशादय उत्पद्यन्त इति शेषः चशब्दस्य प्राग्वत्सम्बन्धात्परमाणवश्च, एकत्वेनेति तृतीया, तत एकत्वेन - असहायत्वेन लक्षितं यत्पृथक्त्वंस्कन्धेभ्यो विचटनात्मकं तोनोत्पद्यन्ते, एकत्वविशेषणं च यत्ससहायानां द्व्यणुकादीनां वास्तवं यच्चैकत्वपरिणतावपि देशादीनां बुद्धिपरिकल्पितं स्कन्धेभ्यः पृथक्त्वं न ततः परमाणव उत्पद्यन्त इत्याचष्टे, तथा चाह वाचकः - "संघाताद् भेदात् सङ्घातभेदादिति, एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते, तथा भेदादेव परमाणु" रिति ॥ एतानेव क्षेत्रत आहएगत्तेण पुहुत्तेणं, खंधा य परमाणु ।
मू. ( १४७५ )
लोएगदेसे लोए अ, भइअव्वा ते उ खित्तओ ॥ (एत्तो कालविभागं तु, तेसि वुच्छं चउव्विहं)
वृ. लोकस्य चतुर्दशरज्ज्वात्मकस्यैकदेश: - एकद्यादिसङ्ख्याता सङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च 'भक्तव्या: ' भजनया दर्शनीया: 'ते' इति स्कन्धाः परमाणवश्च 'तुः' पूरणे 'क्षेत्रमाश्रित्य, अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात्स्कन्धविषयैव भजना दृष्टव्या, ते हि विचित्रत्वात्परिणतेर्बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति यदुक्तम्- "एगेणवि से पुत्रे दोहिवि पुण्णे सर्वपि माइज्जे "त्यादि, अन्ये तु सङ्ख्येयेषु च प्रदेशेषु यावत्सकललोकेऽपि तथाविधाचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते, 'अतः ' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्दादीनां वक्ष्ये 'चतुर्विधं' साधनादिसपर्यवसितापर्यवसितभेदेनानन्तरमेव
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org