________________
उत्तराध्ययन- मूलसूत्रम् - २-३६ / १४७१ धम्माधम्मे य दोsवेए, लांगमित्ता वियाहिया । लोगालोगे य आगासे, समए समयखित्तिए ।
'वृ. 'धर्माधर्मौ' धर्मास्तिकायाधर्मास्तिकायौ 'चः ' पूरणे द्रावप्येतौ 'लोकमात्रौ' लोकपरिमाण व्याख्यातौ, ननु धर्माधर्मावित्युक्ते द्वाविति गतार्थमेव द्वित्वसङ्ख्याया द्विवचनेनैवाभिधानात् सत्यं, किन्तु गतार्थानामपि दृश्यते एव लोके प्रयोग:, तथा चाह जिनेन्द्रबुद्धि: - "यदि गतार्थानामप्रयोग एव स्यात् पचति देवदत्त इत्यत्र पचतीत्येतद्गततिडैवैकत्वस्योक्तत्वाद् देवदत्त इति सुप एकवचनस्याप्राप्तिरेव स्यादिति, लोकमात्रत्वं चानयोरेतदवष्टव्याकाशस्यैव लोकत्वात्, अलोकव्यापित्वे त्वनयो जीवपुद्गलयोरपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकत्वावाप्तेः उक्तं च
२५२
मू. ( १४७१ )
ܙ
"धर्माधर्मविभुत्वात्सर्वत्र जीवपुद्गलविचारात् । नो लोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥"
तथा चैतौ लोक एव नालोक इत्यर्थादुक्तं भवति, तथा 'लोगालोगे य आगासे 'त्ति लोकेऽ लोके चाऽऽकाशं सर्वगतत्त्वात्तस्य, 'समय:' इत्यद्धासमयः समयोपलक्षितं क्षेत्रं समय क्षेत्रम्अर्द्धतृतीयद्वीपसमुद्रास्तद्विषयभूतमस्यास्तीति समयक्षेत्रिकः, तत्परतस्तस्यासम्भवात्, समयमूलत्वादावलिकादिकल्पनायाः तेऽप्येतावत्क्षेत्रवर्त्तिनं एव, तथा चोक्तम्
"समयावलिकापक्षमासर्त्वयनसञ्ज्ञित्ताः ।
नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥ "
इति सूत्रार्थः ॥ एतानेव कालत आहमू. ( १४७२ )
-
धम्माधम्मागासा, तिनिवि एए अनाइया । अपज्जवसिया चेव, सव्वद्धं तु वियाहिया || समएवि संतई पप्प, एवमेव वियाहिए । आएसं पप्प साईए, सपज्जवसिएविय ॥
मू. ( १४७३ )
7
वृ. धर्मश्चाधर्मश्चाकाशं च धर्माधर्माकाशानि त्रीण्यप्येतानि न विद्यते आदिरेषामित्यनादिकानि, इत्यतः कालात्प्रभृत्यमूनि प्रवृत्तानीत्यसम्भवात्, न पर्यवसितान्यपर्यवसितान्यनन्तानीतियावत्, न हि कुतश्चित्कालात्परत एतानि न भविष्यन्तीति सम्भवः, चैवौ प्राग्वत्, तथा च 'सर्वाद्धा' सर्वकालं कालात्यन्तसंयोगे द्वितीया, 'तुः' अवधारणेऽतः सर्वदा स्वस्वरूपापरित्यागतो नित्यानीतियावद् 'व्याख्यातानि ' कथितानि, सर्वत्र लिङ्गव्यत्ययः प्राग्वत, समयोऽपि 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां 'प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण 'व्याख्यातः ' प्ररूपितः, पठन्ति च- 'एमेव संतई पप्प समएवि 'त्ति स्पष्टम्, 'आदेश' विशेषं प्रतिनियतव्यक्त्यात्मकं 'प्राप्य' अङ्गीकृत्य सादिकः सपर्यवसितः, 'अपि : ' समुच्चये 'च: ' पुनरर्थे भिन्नक्रमश्च देशं पुनः प्राप्येति योज्यः, विशेषापेक्षया ह्युभूत्वाऽयं भवति भूत्वा च न भवतीति सादिनिधन उच्यत इति सूत्रद्वयार्थः ॥
इत्थमजीवानामरूपिणां द्रव्यक्षेत्रकालैः प्ररूपणा कृता, सम्प्रति भावप्ररूपणावसरः, तत्र चामूर्त्तत्वेन नामीषां पर्याया रूपिपर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org