SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ अध्ययन-३६,[नि.५५९] तत्र स्वल्पवक्तव्यत्वाद्रव्यतोऽजीवनरूपणामाह.. मू.(१४६८) रूविणो चेवावी य, अजीवा दुविहा भवे । अरूवी दसहा वृत्ता, रूवीणोऽविचउब्विहा ।। मू. (१४६९) धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए। अधम्मे तस्स देसे य, तप्पएसे य आहिए। मू. (१४७०) आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ।। वृ.रूपस्पर्शाद्याश्रया मूर्तिस्तदेपामेषु वाऽस्तीति रूपिणः 'चः' समुच्चये 'एवेति पूरणे 'रूवी य'त्ति अकारप्रश्लेषात्प्राग्वद्वचनव्यवत्ययाद्वाऽरूपिणश्च, नैपामुक्तरूपं रूपमस्तीतिकृत्वा, अजीवाः 'द्विविधाः उक्तभेदतो द्विविधाः 'भवे'त्ति भवेयुः, तत्रापि 'अरूविपत्ति अरूपिणः 'दशधा' दशप्रकाराः 'उक्ताः' प्रतिपादितास्तीर्थकृदादिभिरिति शेषः, पश्चानिर्दिष्टत्वेऽपि चोक्तन्यातयोऽनन्तरत्वाद्वाऽमीपां प्रथमत उपादानं, रूपिणः 'अपि:' पुनरर्थस्ततश्च रूपिणः पुनः 'चतुर्विधाः' चतुष्प्रकारा उभयत्राजीवा इति प्रक्रमः। ___ तत्रारूपिणो दशविधानाह-धारयति गतिपरिणतजीवपुद्गलांस्तत्स्वभाव इति धर्मः अस्तयश्वेह प्रदेशास्तेषां चीयत इति काय:-सङ्घातोऽस्तिकायस्ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः-सकलदेशप्रदेशानुगतसमानपरिणतिमद्विशिष्टं द्रव्यं, तस्य-धर्मास्तिकायस्य दिश्यतेप्रदेशा पेक्षया समानपरिणतरूपत्वेऽपि देशापेक्षायां असमानपरिणतिमाश्रित्य विशिष्टरूपतया विवक्ष्यते--उपदिश्यत इति देश:-त्रिभागचतुर्भागादिस्तद्देशः, तथा तस्येति-धर्मास्तिकायस्यैव प्रकर्पणान्त्यत्वात्प्रदेशान्तराभावतः क्वचिदप्यनुगतरूपाभावलक्षणेन दिश्यते-प्राग्वदुपदिश्यत इति प्रदेशो-निरंशो भागस्तत्प्रदेश: 'आख्यातः' कथितः, न धारयति-गतिपरिणतावपि जीवपुद्गलांस्तत्स्वभावतया नावस्थापयति स्तित्युपष्टम्भकत्वात्तस्येत्यधर्मः पदेऽपि पदैकदेशदर्शनादधर्मास्तिकायः 'तस्य' इत्यधर्मास्तिकायस्य देशश्च' उक्तरूप: 'तत्प्रदेशश्च' तथाविध एवाख्यातः, तथा आडिति मर्यादया-स्वस्वभावपरित्यागरूपया काशन्ते-स्वरूपेणैव प्रतिभासन्ते तस्मिन् पदार्था इत्याकाशं, । ___ यदा त्वभिविधावाङ्तदा आडिति-सर्वभावाभिव्याप्त्या काशत इत्याकाशं तदेवास्तिकाय आकाशास्तिकायस्तस्य देशस्तत्प्रदेशश्च प्राग्वत् 'आख्यातः' कथितः, तथाऽद्धा-कालस्तद्रूपः समयोऽद्धासमयो निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति तत्त्वतः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इतीह नोक्ताः, उपसंहारमाह-अरूपिणः 'दशविधा' इति दशप्रकारा भवेयुः पूर्वत्रिकत्रये एकस्यास्य प्रक्षेपात्, एषां च यथाक्रमं गतिस्थित्यवगाहोपष्टम्भकत्वं वर्त्तना चलक्षणमवगन्तव्यं, तथा चाऽऽससेनः "जीवानां पुद्गलानां च, गतिस्थित्युपकारिणौ। धर्माधर्मों स्थितौ व्योम, त्ववगाहनलक्षणम् ।। कालस्तु वर्तनालिङ्गः" इत्यादीति सूत्रत्रयार्थः ।। सम्प्रत्येतानेव क्षेत्रत आह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy