________________
२५०
उत्तराध्ययन-मूलसूत्रम्-२-३५/१४६५ प्रतिपाद्यत इति भावः,
'भावे' भावनिक्षेपे विभक्तिः 'खलु' निश्चितं ज्ञाचव्या पड्विधे भावे' पटप्रकारौदयिकादिभावविपया, आह-एवमनेकविधायां विभक्ताविह कयाऽधिकार:?, उच्यते, अधिकारः' अधिकृतम् ‘अत्रे'ति प्रस्तुते पुनःशब्दो वाक्यान्तरोपन्यासे 'द्रव्यविभक्त्या' जीवाजीवद्रव्यविभागावस्थापनरूपया, तस्या एवात्र प्रदर्श्यमानत्वादिति भाव इति नियुक्तिगाथाऽष्टकावयवार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, मू.(१४६५) जीवाजीवविभक्ति मे, सुणेहेगमणा इओ।
जंजाणिऊण भिक्खू, सम्मं जयइ संजमे।। वृ. जीवाश्च-उपयोगलक्षणा अजीवाश्च-तद्विपरीता जीवाजीवास्तेषां विभजनं विभक्तिःतत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीवविभक्तिस्तां 'मे' मम कथयत इति गम्यते 'शृणुत' आकर्णयत शिष्या इति शेषः, पठन्ति च 'सुनेह मि'त्ति, कथम्भूताः सन्त?एकं-दर्शनान्तरोक्तजीवाजीवविभक्तावगतत्चेन मन:-चित्तं येषां ते एकमनसः, इहैव श्रद्धानवन्त इत्युक्तं भवति, 'इतः' इत्यस्मादनन्तराध्ययनादेतद्विपयात् श्रवणाद्वाऽनन्तरं यां जीवाजीवविभक्तिं ज्ञात्वा 'भिक्षुः' अनगारः पाठान्तरत: श्रमणो वा सम्यगिति-प्रशंसार्थो निपातः, ततश्च सम्यकप्रशस्तं यथा भवत्येवं 'यतते' यत्नवान् भवति, क्व?-संयमे-उक्तरूपसंयमविषय इति सूत्रार्थ: । आह-जीवाजीवविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमयतनायां विषयतयोपयुज्यत एवेत्याहमू.(१४६६) जीवा चेव अजीवा य, एस लोएवियाहिए।
अजीवदेसमागासे अलोए से वियाहिया।। व. 'जीवाश्चैवाजीवाश्च' वक्ष्यमाणाः, कोऽर्थः ?-जीवाजीवरूप: 'एष'इति प्रतिप्राणि प्रत्यक्षः प्रतीतो लोको विशेषेणाख्यातः-कथितो व्याख्यातस्तीर्थकृदादिभिरिति गम्यते, जीवाजीवानामेव यथायोगमाधाराधेयतया व्यवस्थितानां लोकत्वाद्, 'अजीव'त्ति, अनेनाजीवसमुदाय उपलक्ष्यते, सच धर्माधर्माकाशपुद्गलात्मकस्तस्य देश इत्यंशोऽजीवदेश आकाशमलोकः स व्याख्यातो,
"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत्क्षेत्रम् ।
तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्।।" इति भावार्थः ।। इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽहमू.(१४६७) दचओ खित्तओ चेव, कालओ भावओ तहा।
परूवणा तेसि भवे, जीवाणमजीवाण य॥ वृ. 'द्रव्यतः' द्रव्यमाश्रित्य इदमियभेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्र इति, 'कालतः' इदमेवंविधकाल स्थितीति, 'भावतः' इमेऽस्य पर्याया इति 'तथे ति समुच्चये 'प्ररूपणा' यथास्वं भेदाद्यभिधानद्वारेण स्वरूपपोदर्शनं तेषाम्' इति विभजनीयत्वेन प्रक्रान्तानां 'भवेत्' स्याज्जीवानामजीवानां चेति सूत्रार्थः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org