________________
२५४
उत्तराध्ययन- मूलसूत्रम् - २-३६/ १४७५ वक्ष्यमाणेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं गाथेत्युच्यते, तथा च तल्लक्षणं" विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत्पण्डितैज्ञेयम् ॥” इति, अत्र च दश धर्मवदित्यनेन,
“दश धर्म न जानन्ति, धृतराष्ट्र ! निबोधत ॥ मत्त: प्रमत्त उन्मत्त:, श्रान्तः क्रुद्धो बुभुक्षितः || त्वरमाणश्च भीरुश्च, लुब्धः कामी च ते दश ।।"
इति गृह्यत इति, प्रत्यन्तरेषु त्वन्तपादद्वयं न दृश्यत एव ।। यथाप्रतिज्ञातमाहसंतई पप्प तेऽनाई, अप्पज्जवसिआवि अ । ठिई पडुच्च साईआ, सप्पज्जवसिआवि अ ॥
मू. (१४७६ )
मू. ( १४७७ )
मू. ( १४७८ )
वृ. 'सन्ततिम्' उक्तरूपां 'प्राप्य' आश्रित्य 'ते' इति स्कन्धाः परमाणवश्च 'अणाई 'त्ति अनादयोऽपर्यवसिता अपि च, न हि ते कदाचित्प्रवाहतो न भूता न वा न भविष्यन्तीति, 'स्थिति' प्रतिनियत क्षेत्रावस्थानरूपां 'प्रतीत्य' अङ्गीकृत्य सादिकाः सपर्यवसिता अपि च, तदपेक्षया हि प्रथमतस्तथाऽस्थित्वैवावतिष्ठन्ते अवस्थाय च न पुनर्न तिष्ठन्तीत्यभिप्रायः ||
असंखकालमुक्कोसं, इक्कं समयं जहशयं । अजीवाण य रूवीणं, ठिई एसा विआहिआ ॥ अनंतकालमुक्कोस, इक्कं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेयं विआहिअं ॥
सादिसपर्यवसितत्वेऽपि कियत्कालमेषामवस्थिति: ? इत्याह- 'असङ्ख्यकालम्' आगमप्रतीतमुत्कृष्टा, समयमेकं जघन्यका, अजीवानां रूपिणां पुद्गलानामिति योऽर्थः स्थितिरेषा व्याख्याता, जघन्यत एकसमया उत्कृष्टतस्त्वसङ्ख्येयकालम्, असङ्ख्येयकालात्परतो ऽ. वश्यमेव विचटनात् ।
इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह-'अनन्तकालं' समयप्रसिद्धमुत्कृष्टमेकं समयं जघन्यकमजीवानां रूपिणाम् ' अंतरेय'न्ति अन्तरं विवक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तत्प्राप्तेर्व्यवधानमेतद् उक्तरूपं व्याख्यातं, तेषा हि विवक्षितक्षेत्रावस्थितिप्रच्युतानां कदाचित्समयावलिकादिसङ्ख्यातकालतोऽसंख्यातकालद्वा, पल्योपमादेर्यावदनन्तकालादपि सम्भवतीति सूत्रत्रयार्थः । एतानेव भावतो विधातुमाह
मू. ( १४७९ )
वण्णओ गंधओ चेव, रसओ फासओ तहा। संठाणओ य विन्नेओ, परिणामो तेसि पंचहा ॥
मू. ( १४८० )
मू. ( १४८१ )
वण्णओ परिणया जे उ, पंचहा ते पकित्तिया । किण्हा नीला य लोहिया, हालिद्दा सुकिला तहा ॥ गंधओ परिणया जे य, दुविहा ते वियाहिया । सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥ रसओ परिणया जे उ, पंचहा ते पकित्तिया ।
मू. ( १४८२ )
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org