________________
उत्तराध्ययन- मूलसूत्रम् - १-१ / ४१ ततयाऽज्जलिपुटमस्येति प्राज्जलिपुटः, इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह- 'वदेत्' ब्रूयात् न पुनरिति चशब्दो भिन्नकम्:, वेददित्यस्यानन्तरं दृष्टव्यः, ततो ऽयमर्थ:- कथञ्चित कृतकोपानपि गुरून् विधयापयन् वदेत् यथा -भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यं, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥ साम्प्रतं यथा निरपवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽहमू. (४२)
६०
S
धम्मज्जियं च ववहारं, बुद्धोहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ।।
वृ. धर्मेण-क्षान्त्यादिरूपेणार्जितम् उपार्जितं धर्जितं, न हि क्षान्त्यादिधर्मविरहितं इमं प्राप्नोतीति, 'च: ' पुरणे, विविधं विधिअवद्वाऽवहरणमनेकार्थत्वादाचारणं व्यहारस्तंयतिकर्तव्यतारूपं, 'बुद्धेः' अवगततत्त्वैः आचरितं, 'सदा' सर्वकालं, 'त'मिति सदावस्थिततया प्रतीतमेव ‘आचरन्' व्यवहरन्, यद्वा-यत्तदोर्नित्याभिसम्बन्धात् सुब्व्यत्ययाच्च धर्मार्जिता वृद्धैराचतिरश्च यो व्यवहारस्तमाचरन- कुर्वन्, विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत् एवं च किमित्याह-'गर्हाम्' अविनीतोऽयमित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति, यतिरिति गम्यते । यद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनोपेतो धर्म्यान धर्मातिक्रान्तः, 'जियं च ववहारं 'ति पाकृतत्वाच्चस्य भिन्नक्रमत्वाज्जीतव्यवहारश्च, अनेन चागमादिव्यवहारव्ययच्छेदमाह, अत एव 'बद्धै: ' आचार्यैराचरितः सदा सर्वकालं त्रिकालविषयत्वत् जीवव्यवहारस्य य एवंविधो व्यवहास्तं व्यवहारं प्रमादात् स्खलितादौ प्रायश्चित्तदानरूपमाचरन् ‘गर्हां' दण्डरुचिरयं निर्घृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्य इति 'शेप:, न चायं निजक उपकारी वा मम विनेय इति न द्णडनीय इति ज्ञापनार्थं च धर्म्यजीतविशेषणं, पठन्ति च- 'तमायरंतो मेहावि'त्ति सुगममेवेति सूत्रार्थः ॥ किं बहुना ? - मनोगयं वक्कगयं, जाणित्ताऽऽयरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ।।
मू. (४३)
वृ. मनसि - चेतसि गतं स्थितं मनोगतं तथा वाक्ये - वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, वाक्यग्रहणं तु पदस्यापरिसमाप्तार्थाभिधायित्वेन क्वचिदप्रयोजकत्वात्, 'ज्ञात्वा' अवबुध्य 'आचार्यस्य' विनयार्हस्य गुरोः तुशब्दः कायगतकृत्यपरिग्रहार्थः, 'तत्' मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यात्मकेन 'कर्मणा' क्रियया तन्निर्वर्तनात्मिकया तदुपपादयेत्-विदधीत, पठन्ति च - 'मनोरुइं वक्करुई, जाणित्ताऽऽयरियस्स उ' अत्र चमनसि रुचि:- अभिलाषस्तामाचार्यस्य ज्ञात्वा इदममीषां भगवतामभिमतमित्यवगम्य, वाक्ये रुचि:-पर्यवसितकार्यवाञ्छा तां च, शेषं प्रागवत्, अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः ॥ स चैवं विनीताविनयतथा यादृक् स्यात्तदाह
मू. ( ४४ )
वित्ते अचोइए निच्चं, खिप्पं हवइ सुचोयए ।
जहोवइटुं सुकडं, किच्चाई कुव्वई सया ।
वृ. 'वित्ते' विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इतियावत् 'अचोइए 'ति यथा हि बलवद्विनीतधुर्यः प्रतादोत्क्षेपमपि न सहते, कुस्तत्रिपतनम्, एवमयमप्यचोदित एव
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org