________________
अध्ययनं-१,[नि. ६४] प्रतिप्रस्तावं गुरुकृत्यपं प्रवर्तत इति कुतः प्रेरितत्वमस्य?. 'नित्यं' सदा, न कदाचिदेव, स्वयं प्रवर्तमानोऽपि प्रेरिताऽनुशयवानपि स्यादिति कदाशङ्कापनोदाहायाह-'क्षिप्रम्' इति शीघ्रं भवति 'सुचोयए'त्ति शोभने प्रेरयितरि, गुराविति गम्यते, सोपस्कारत्वाच्च क्षिप्रमेव प्रेरक सति कृत्येपं वर्तते, नातशयतो विलम्बितमेव, पठ्यते च --'वित्ते अचोइए खिप्पं, पसो थामवं करे' इति, अत्र च प्रसन्नः' प्रसत्तिमान, नाहमाज्ञपित इत्यप्रसन्नो भवति, किन्तु ममायमनुग्रह इति मन्यते, क्षिप्रमेव च तत्कुरुते, 'थामवं'ति स्थाम-बलं तद्वान्, किमुक्तं भवति?, सति बले करोति, असति च सद्भावमेवाऽऽख्याति, यथाऽहमनने कारणेन न शक्नोमीति । क्षिप्रमपि कुर्वन् कदाचिद्विपरीतमर्धविहितं वा विदध्यात्तद्वययच्छेदायाह-'यथोपदिष्टम् उपदिष्टानतिक्रमेण, 'सुकृतं सुष्ठ परिपूर्ण कृतं यथा भवत्येवं कृत्यानि करोति' निर्वर्तयति, सदा सता वा शोभनेन प्रकारेणेति सूत्रार्थः ।। साम्प्रत्युपसंहर्तुमाहमू.(४५) नच्चा नमइ मेहावी, लोए कित्ती य जायइ।
किच्चाणं सरणं होई, भूयाणं जगई जहा।। वृ. 'ज्ञात्वा' अनन्तरमखिलमध्ययनार्थमवगम्य 'नमति' तत्कृत्यकरणं पति प्रह्रीभवति 'मेधावी' एतदध्ययनार्थावधारणशक्तिमान मर्यादावर्ती वा, तद्गुणं वक्तुमाह-लोके कीर्ति:सुलब्भमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्यादिका श्लाघा चशब्द:-'एकदिग्व्यापिनी कोतिः, सर्वदिग्व्यापकं यशः' इति प्रसिद्धेर्यशश्चेति समुच्चिनोति, उभयमपि प्रक्रमानन्तुरेव 'जायते' प्रादुर्भवति, स एव भवति कृत्यानाम्' उचितानुष्ठानामना कलुषान्त:करणवृत्तिभिरविनीताविनयैरतिदूरमुत्सादिताना 'शरणम्' आश्रय इत्यर्थः, केपां केव?, 'भूतानां' प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः ।। ननु विनयः पूज्यप्रसादनफलः, ततोऽपिच किमवाप्यत इत्याहमू.(४६) पूज्जा जस्स पसीयंति, संबुद्धा पुव्वसंथुया।
पसन्ना लंभइस्संति, विउलं अद्वियं सुयं । वृ. पूजयितुमर्हाः पूज्या-आचार्यादयः यस्य' इति विवक्षितशिष्योपदर्शकं सर्वनाम 'प्रसीदन्ति' तुष्यन्ति सम्बुद्धाः' सम्यगवगतवस्तुतत्त्वाः, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्स कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, संस्तुताविनयविपयत्वेन परिचिताः सम्यक्स्तुता वा सद्भुतगुणोत्कीर्तनादिभिः पूर्वसंस्तुताः, शेषविनयोपलक्षणमेतत्, ‘प्रसन्ना' इति सप्रसादाः, पठ्यते च-'सम्पनाः' ज्ञानादिगुणपरिपूर्णाः सम्यग्अविपरीता प्रज्ञा येषां ते सत्प्रज्ञा वा, 'लम्भयिप्यन्ति' प्राययिष्यन्ति, किमित्याह-'विपुलं'विस्तीर्णम्, अर्यत इत्यर्थो-मोक्षः स प्रयोजनमस्येत्याथिकं, तदस्य 'प्रयोजन' मिति ठक्, अथवा अर्थः स एव प्रयोजनरूपोऽस्यास्तीत्यार्थिकः, अत इनिठना विति ठन् 'श्रुतम्' अङ्गोपाङ्गप्रकीर्णकादिभेदमागम, न तु हरहरिहिरण्यगर्भादिवत् साक्षात् स्वर्गादिकम्, अनेन पूज्यप्रसादस्यानन्तरफलं श्रुतमुक्त, व्यवहहितफलं तु मुक्तिरिति सूत्रार्थः ।।
सम्प्रति श्रुतवासौ तस्यैहिकफलमाहमू.(४७) स पुज्जसत्थे सुविनीयसंसए, मनोरुई चिट्ठइ कम्मसंपया। तबोसमायारीसमाहिसंवुडे, महज्जुई पंच वयाइं पालिया ।।
For Private & Personal Use Only
Jain Education International
For Privat
www.jainelibrary.org