________________
५९
अध्ययनं-१,[नि. ६४] तोत्रं-द्रव्यतः प्राजनको भावतस्तु तद्दोपोद्भावकतया व्यथोपजनकं वचनमेव, तद् गवेषयति किमहममीपां जात्यादिदूषकु वच्मि ?, इत्यन्त्रेपयतीति तोत्रगवेपकः, प्रक्रमाद्गुरूणां, न स्यादिति चादरख्यापनार्थत्वात्रं पुनरुक्तं-वुद्धोपघाती न स्यात्तत्रोदाहरणं-कश्चिदाचायांदिगणिगुणसम्पत्समन्यितो युगपधान: पक्षीणप्रायकांऽऽचार्योऽनियतविहारितया विहर्तुमिच्छन्नपि परिक्षीणजंघाबलः क्वचिदेकस्थान एवावतस्थे, तत्रत्य श्रावकजनेन चैतेषु भगवत्सु सत्सु तीर्थ सनाथमिति विचिन्तयता तद्वयोऽवस्थासमुचितस्निग्धमधुराहारादिभिः प्रतिदिवसमुपचर्यते स्म, तच्छिप्याश्च गुरुकर्मतया कदाचिदचिन्तयन्, यथा-कियच्चिरमयमजङ्गमोऽस्माभिरनुपालनीयः, ततस्तमनशनमादापयितुमिच्छवोऽतिभक्तश्रावकजनानुदिनदीयमानमुचितमशनादि तस्मै न समर्पयामासुः, अन्तप्रान्तादि च समुपनीय सविपादमिव तत्पुरत उक्तवन्तः-किमिह कुर्मः ?, यदीडशामपि भवतामुचितमशनादि नामी विवेकविकलतया सदपि सम्पादयितुमीशते, श्राद्धानभिदधति च, यथा-अत्यन्तनि:स्पृहतया शरीरयापनामपि प्रत्यनपेक्षिणः प्रणीतं भक्तपानमाचार्या नेच्छन्ति, किन्तु संलेखनामेव विधातुमध्यवस्यन्तीति।
ततस्तद्चनमाकर्ण्य मन्युभरनिभृतचेतसस्तमुपसृत्य सगद्गहं जगदुः- भगवन् ! भुवनभवभावस्वभावावभासिप्वर्हत्सुचिरतरातीतेष्वपि प्रतपत्सु भवत्सु भुवनमवभासवदिवाभाति, तत्किमयमत्र भवद्भिरकाल एव संलेखनाविधिराब्धः?, न च वयममीषां निर्वेदहेतव इति मन्तव्यं, यतः-शिरः स्थिता अपि भवन्तो न भारमस्माकममीषां वा शिप्याणां कदाचिदादधति, ततस्तैरिङ्गितज्ञैरवगतं-यथाऽस्मन्शिप्यमति विजृम्भितमेतत्, किममीपामप्रीतिहेतुना प्राणधारणेन?, न खलु धर्मार्थिनां कस्यचिदप्रीतिरुपादयितुमुचितेति चेतसि विचिन्त्य मुकुलितमेव तत्पुरत उक्तं-कियच्चिरमजङ्गमैरस्माभिरुपरांधनीयास्तपस्विनो भवन्तश्च, तद्वरमुत्तमांचरितमुत्तमार्थमेव च प्रतिपद्यामहे इति तानसौ संस्थाप्यभक्तमेव प्रत्याचचक्षे । इत्येवं बुद्धोपघाती नस्यादिति सूत्रार्थः ।। एवं तावदाचार्य न कोपयेदित्युक्तं, कञ्चित् मू. (४१) आयरिय कुवियं नच्चा, पत्तिएणं पसायए।
विज्झविज्जा पंजलिउडे, वएज्जा न पुणोत्ति। वृ. 'आचार्यम्' उक्तस्वरूपम्, उपलक्षणत्वादुपाध्यायादिकमपि 'कुपितम्' इति सकोपमनुशासनोदासीनताभिः,
"पुरिसजाएवि तहा विनीयविनयम्मि नत्थि अभिओगो ।
सेसंमि उ अभिओगो जनवयजाए जहा आसे।" इत्यागमात्, कृतबहिष्कोपं वा दृष्टप्रदानादिना 'ज्ञात्वा' अवगम्य 'पत्तिएणं'ति आपत्वात् प्रतीतिः, प्रयोजनमस्येति प्रातीतिकं-शपथादि, अपिशब्दस्य चेह लुसनिर्दिष्टत्वात् तेनापि प्रसादयेत् इदमुक्तं भवति-गुरुकोपहेतुकमबोध्याशातनामुक्त्वभावादिकं विगणयन् यया तया गत्याम तत्प्रसादनमेवोत्पादयेत. सर्वमपि वा प्रतीत्युत्पादकं वचः प्रातीतिकं तेन प्रसादयेत्, यद्वा 'पत्तिएणं'तिप्रीत्या साम्नैव, न भेददण्डाद्युपदर्शनेन, एतदेवाह-'विध्यापयेत्'कथञ्चिदुदीरितकोपानलानप्युशमये, प्रकर्षण-अन्तःप्रोत्यात्मकेन कृतो-विहितोऽज्जलिः-उभयकरमीलनात्मकोऽनेनेति प्रकृताज्जलिः, प्राकृतत्वाच्च कृतशब्दस्य परनिताः, प्रकृष्टं वा- भावन्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org