SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ २३० उत्तराध्ययन-मूलसूत्रम्-२-३४/१३८३ वृ. लेश्याभिधायकमध्ययनं लेश्याऽध्ययनं तत् 'प्रवक्ष्यामि' प्रकर्षेण-तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये, आनुपूर्व्या यथाक्रममिति च प्राग्वत्, तत्र च षण्णामपि' पट्सङ्घयानामपि वक्ष्यमाणभेदेन कर्मलेश्याना' कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभवान्' रसविशेपान शृणुत मम कथयत इति शेष इति सूत्रार्थः ।। एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारिद्वारसूत्रमाहमू. (१३८४) नामाई वारसगंधफासपरिणामलक्खणं ठाणं। ठिइंगइंच आउं, लेसाणं तु सुनेह मे।। दारगाहा ।। वृ.'नामानि' अभिधानानि वर्णश्च-कृष्णादी रसश्च-तिक्तादिर्गन्धश्च-सुरभ्यादि: स्पर्शश्चकर्कशादि परिणामश्चजघन्यादिः लक्षणं च-पञ्चाश्रवासेवनादि, एषां समाहारे वर्णगन्धरसस्पर्शपरिणामलक्षणं तत्, 'स्थानम्' उत्कर्षापकर्षरूपं 'स्थितिम्' अवस्थानकालं 'गति च' नरकादिकां यतो याऽवाप्यते 'आयुः' जीवितं च यावति च तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां 'तुः' पूरणे 'सुणेह मे' त्ति प्राग्वदिति सूत्रार्थः ।। अत्र च 'यथोद्देशं निर्देश' इति न्यायतो नामान्याहमू. ( १३८५). किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य। सुक्का लेसा य छट्ठा उ, नामाइंतु जहक्कम।। वृ. किण्हासूत्र स्पष्टमेव । प्रत्येकमासां वर्णानाहमू. (१३८६) जीमूतनिद्धसंकासा, गवलरिद्धगसंनिभा। खंजंजननयननिभा, किण्हलेसा उवण्णओ। वृ. 'जीमूयनिद्धसंकास'त्ति प्राकृतत्वात् स्निग्धश्चासौ सजलत्वेन जीमूतश्च-मेघः स्निग्धजीमूतस्तद्वत्सम्यक् काशतेयर्णत: प्रकाशत इति स्निग्धजीमूतसङ्काशा तत्सदृशीतियावत्, तथा गवलं-महिषभृङ्ग रिष्ठो-द्रोणकाकः स एव रिष्ठक: यद्वा रिष्टको नाम फलविशेषस्तत्संनिभातच्छाया, 'खंजण'त्ति खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भूतमञ्जनं च-कज्जलं नयनंलोचनम् इह चोपचारात्तेदकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा-तत्समा कृष्णलेश्या तुः' विशेषणे स च शेषलेश्याभ्यो वर्णकृतं विशेषं द्योतयति, यद्वा 'तुः' अवधारणे भिन्नक्रमश्च ततः 'वर्णत एव' वर्णमेवाश्रित्य न तु रसादीन्, एवमुत्तरत्रापि । मू.(१३८७) नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उक्नओ।। वृ. नीलश्चासावशोकश्च-वृक्षविशेपो नीलाशोकस्तत्सङ्काशा, रक्ताशोकव्यवच्छेदार्थं च नीलविशेषणं, चासः-पक्षिविशेषस्तस्य पिच्छं-पतत्र तत्समप्रभा-तत्तुल्यद्युतिः, स्निग्धोदीप्तो वैडूर्यो-मणिविशेषस्तत्सङ्काशा तत्सदृशी पदविपर्ययः प्राग्वत् नीललेश्या तु वर्णतो नीलेति तात्पर्यम्। मू.(१३८८) अयसीपुष्फसंकासा, कोइलच्छदसंनिभा। पारेवयगीवनिभा, काउलेसा उ वनाओ। वृ, अतसी-धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदः-तैलकण्टकः, तथा च वृद्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy