________________
अध्ययनं-३४,[ नि.५३७]
२२९ लेश्या तदा समुच्चिनक्रियं शुक्लध्यानं ध्यायत: कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं नलेश्यासद्भावः?, उच्यते, नायं नियमो यदुत निस्यन्दवतो निस्यन्देन सदा भाव्यं, कदाचिनिस्यन्दवत्स्वपि वस्तुषुतथाविधावस्थायां तदबावदर्शनात्, यच्चोक्तम्-अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभाव इति निश्चिनुमः-योगपरिणाम एव लेश्येति, तदप्यसाधकं, यतो रश्म्यादयः सूर्याद्यभावे न भवन्ति, न च ते तद्रूपा एव, यत उक्तम्
"यच्च चन्द्रप्रभाद्यत्र, ज्ञातं तज्ज्ञातमात्रकम् ।
प्रभा पुद्गलरूपा यत्तद्धर्मो नोपपद्यते ।।" अन्ये त्वाहु:-कार्मणशरीरवत्पृथगेव कर्माष्टकारकर्मवर्गणानिप्पन्नानि कर्मलेश्याद्रव्याणीति, तत्त्वं पुनः केवलिनो विदन्ति । इत्युक्ता द्रव्यलेश्या, भावलेश्यामाह-द्विविधा च भावलेश्या 'विशुद्धलेश्या' अकुलषद्रव्यसंपर्कजात्मपरिणामरूपा तथैव अविशुद्धा' इत्यविशुद्धलेश्या, तत्र द्विविधा विशुद्धलेश्या 'उवसमखइय'त्ति सूत्रत्वादुपशमक्षयदजा, केषां पुनरुपशमक्षयौ ? यतो जायत इयमित्याह-कषायाणाम, अयमर्थः-कषायोपशमजा कषायक्षयजा च, एकान्तविशुद्धि चाऽऽश्रित्यैवमभिधानम्, अन्यथा हि क्षायोपशमिक्यपि शुक्ला तेज: पद्मे च विशुद्धलेश्ये संभवत् एवेति। __अविशुद्धभावलेश्या सेति या प्रागुपक्षिप्ता 'द्विविधा' द्विभेदा 'नियमसा उत्ति, आर्षत्वात 'नियमेन' अवश्यम्भावेन ज्ञातव्या 'पेज्जमि यत्ति 'दोसंमिय'त्ति प्रेमणि च-रागे दोषे च द्वये, किमुक्तं भवति?-रागविषया द्वेषविषयाच, इयं चार्तात्कृष्णनीलकापोतरूपा, तदेवमस्या नामादिभेदतोऽनेकविधत्वे इह कयाऽधिकृतमित्याह-अधिकारः कर्मलेश्या, कोऽर्थः ?कर्मद्रव्यलेश्यया, प्रायस्तस्या एवात्र वर्णादिरूपेण विचारणात्।। __ इत्थं नामादिभेदेन लेश्योक्ता, तत्र च वैचित्र्यात्सूत्रकृतेर्नोकर्मद्रव्यलेश्यायां भावलेश्यायां च यत्प्राग नोक्तं सम्प्रति तदाह-'नोकर्मद्रव्यलेश्या' शरीरभरणादिच्छाया 'पओगस्स'त्ति प्रयोगः-जीवव्यापारः स च शरीरादिषु तैलाभ्यञ्जनमनःशिलाघर्षणादिस्तेन 'वीससा य'त्ति वित्रसा-जीवव्यापारनिरपेक्षाऽभ्रेन्द्रधनुरादीनां तथावृत्तिस्तया च ज्ञातव्या, 'भाव' इति भावलेश्या 'उदयः' विपाकः, इह तूपचारादुदयजनितपरिणामो भणितः षण्णां लेश्यानां जीवेषु। 'अज्झयणे' त्यादिगाथाद्वयमध्ययननिक्षेपाभिधायि विनयश्रुत एव व्याख्यातप्रायमिति। नि. [ ५४९] एयासि लेसाणं नाऊण सुहासुहं तु परिणां।
चइऊण अप्पसत्थं पसत्थलेसासु जइअव्वं ॥ वृ. 'एतासाम्' अनन्तरमुक्तस्वरूपाणां लेश्यानां 'ज्ञात्वा' एतदध्ययनानुसारतोऽवबुध्य शुभाशुभं तुः' पुनरर्थे ततः शुभाशुभं पुनः परिणाम, किमित्याह-'त्यक्त्वा' अपहाय'अप्पसत्थं ति 'अप्रशस्ता' अशुभपरिणामा कृष्णादिलेश्य इति योऽर्थः प्रशस्तलेश्यासु-शुभपरिणामरूपासु पीताद्यासु यतितव्यं, यथा ता भवन्ति तथा यत्नो विधेय इति गाथार्थः॥ इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(१३८३) लेसज्झयणं पवक्खामि, आनुपुब्बि जहक्कम।
छण्हपि कम्मलेसाणं, अनुभावे सुणेहि मे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org