________________
२२८
उत्तराध्ययन-मूलसूत्रम्-२-३४/१३८३ भेदेन प्रक्रमा-ज्जीवानां भवति 'सप्तविधा' सप्तप्रकारा इहापि लेश्येति प्रक्रमः,
अत्रच जयसिंहसूरि: कृष्णादयः षट् ससमी संयोगजा इयं च शरीरच्छायात्मका परिगृह्यते, अन्ये त्वौदारिकौदारिकमिश्रमित्यादिभेदतः सप्तविधत्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नोकर्मणि सप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा 'अजीवकम्मणो दव्वलेस'त्ति अजीवानां 'कम्मणो'त्ति आर्षत्वानोकर्मणि द्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्दस्यह सम्बन्धात्सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां सूर्याणां च ग्रहा-मङ्गलादयस्तद्गणश्च नक्षत्राणि च-कृत्तिकादीनि ताराश्च प्रकीर्णज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम्, आभरणानि च-एकावलिप्रभृतीनि आच्छादनानि च-सुवर्णचरितादीनि आदर्शाएवादर्शका-दर्पणास्ते चाभरणाच्छादनादर्शकास्तेषां, तथा मणिश्च-मरकतादिः काकिणिः-चक्रवर्तिरत्नं मणिकाकिण्यौ तयोर्या लेशयति-श्लेषयतीवात्मनि जननयनानीतिलेश्या-अतीव चक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या प्रक्रमान्चोकर्मणि ज्ञातव्या दशविधैषा, अत्र च चन्द्राविशब्देस्तद्विमानानि 'तास्थ्यात्तद्यपदेश' इति न्यायेनोच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि स्वकायपरकायशस्त्रोपनिपातसम्भवात् तत्प्रदेशानां केषाञ्चिदचेतनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम, उपलक्षणं चात्र दशविधत्वमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छायाया अपि बहुतरभेदसम्भवात्, इत्थं नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्यलेश्यामाह-या कर्मद्रव्यलेश्याऽग्रेतनतुशब्दसम्बन्धात्सा पुनः 'नियमात्' अवश्यम्भावात् षड्विधा 'ज्ञातव्या' अवबोद्धव्या, कथमित्याह-कृष्णा नीला 'काउ'त्ति कापोता तेउ' तैजसी पद्मा च शुक्ला चेति, इहच कर्मद्रव्यलेश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्या, यदुक्तं प्रज्ञापनावृत्तिकृता"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते-योगपरिणामो लेश्यति, स पुनर्योग: शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं"कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणा"मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापारहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योगः, तथैवौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स मनोयोग इति, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्याऽपी"ति गुरवस्तुव्याचक्षते-कर्मनिस्यन्दोलेश्या, यतः कर्मस्थितिहेतवो लेश्याः, यथोक्तम्
"ता: कृष्णनीलकापोततेजसीपद्मशुक्लनामानः ।
श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ।।"इति, योगपरिणामत्वे तुलेश्यानां "योगा पयडिपएसं ठिईअनुभागं कसायओ कुणति"त्ति वचनात्प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु यावत्कषायोदयस्तावत्तन्निस्यन्दस्यापि सद्भावात्कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एवोपशान्तक्षीणमोहयोः कर्मबन्धसद्भावेऽपि न स्थितिसम्भवो, यदुक्तम्
"तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निज्जिन" ति, आह-यदि कर्मनिस्यन्दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org