________________
अध्ययनं - ३४, [ नि. ५३८ ]
२२७
अध्ययनं - ३४- "लेश्या'
नि. [ ५३९ ]
नि. [ ५४० ]
नि. [ ५४१ ]
वृ. व्याख्यातं कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनं सम्प्रति चतुस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थमिदमारभ्यते, अस्य चैवमभिसम्बन्धागतस्योपक्रमादिद्वारप्ररूपणा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपः, तत्र चास्य लेश्याऽध्ययनमिति नामातो लेश्याध्ययनशब्दयोर्निक्षेपमाह नि. [ ५३८ ] लेसाणं निक्खेवो चउक्कओ दुविह होइ नायव्वो । जानगभवियसरीरा तव्वइरित्ता य सा पुणो दुविहा । कम्मा नोकम्मे या नोकम्मे हुंति दुविहा उ ॥ जीवाणमजीवाण यदुविहा जीवाण होइ नायव्वा । भवमभवसिद्धिआणं दुविहाणवि होइ सत्तविहा || अजीवकम्मनो दव्वलेसा सा दसविहा उ नायव्वा । चंदाण व सूराण य गहगणनक्खत्तताराणं ॥ आभरणच्छायणादंसगाण मणिकागिणीण जा लेसा । अजीवदव्वलेसा नायव्वा दसविहा एसा ॥ जा दव्वकम्मलेसा सा नियमा छव्विहा उ नायव्वा । किण्हा नीला काऊ तेऊ पम्हा य सुक्का य !! दुविहा उ भावलेसा विसुद्धलेसा तहेव अविसुद्धा । दुविहा विसुद्धलेसा. उवसमखइआ कसायाणं ।। अविसुद्ध भावलेसा सा दुविहा नियमसो उ नायव्वा । पिज्जमि अ दोमि अ अहिगारो कम्मलेसाए ॥ नोकम्मदव्वलेसा पओगसा वीससा उ नायव्वा । भावे उदओ भणिओ छण्हं लेसाण जीवेसु ॥ अज्झयणे निक्खेवो चउक्कओ दुवुिह होइ नायव्वो जाणगर्भावयसरीरं तव्वइरित्तं च पोत्थगाईसुं ।
नि. [ ५४२ ]
नि. [ ५४३ ]
नि. [५४४]
नि. [ ५४५ ]
नि. [ ५४६ ]
I
नि. [ ५४७ ] नि. [ ५४८ ]
अज्झप्पस्साणयणं नायव्वं भावमज्झयणं ॥
वृ. लेसाणमित्यादि गाथा एकादश, तत्र 'लेसाणं' ति सूत्रत्वाल्लेश्यायां, कोऽर्थः ? - लेश्या - शब्दस्य निक्षेपश्चतुर्विधो नामादि, 'दुविहो' इत्यादि प्राग्वद् यावत् 'सा पुणो दुविह'त्ति, 'सा' व्यतिरिक्तलेश्या पुनर्द्विविधा, द्वैविध्यमेवाह - कर्मणि नोकर्मणि च तत्र कर्मण्यल्पवक्तव्यैवेति तामुपेक्ष्य नोकर्मविषयामाह - 'नोकर्मणि' कर्माभावरूपे भवति द्विविधा 'तुः' अवधारणार्थ इति द्विधैव । कथमित्याह - 'जीवानाम् ' उपयोगलक्षणानाम् 'अजीवानां च' तद्विपरीतानाम्, उभयत्र लेश्यति प्रक्रम:, अत्र च नोकर्मत्वमुभयोरपि कर्माभावरूपत्वात्सम्बन्धिभेदाच्च द्विभेदत्वं तत्रापि द्विविधा जीवानां भवति ज्ञातव्या, 'भवमभवसिद्धियाणं' ति मस्यालाक्षणिकत्वात् सिद्धिशब्दस्य च प्रत्येकमभिसम्बन्धाद् भविष्यतीति भवा- भाविनीत्यर्थः तादृशी सिद्धिर्येषां ते भवसिद्धिका भव्यास्तेषाम् अभवसिद्धिकानां' तद्विपरीतानां द्विविदानामप्युक्त
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International