________________
२२६
उत्तराध्ययन-मूलसूत्रम्-२-३३/१३०५ कपायद्वादशकस्य चत्वारः सागरोपमसप्तभागास्तावतैवन्यूनाः, क्रोधस्य संज्वलनस्य मासद्वयं मानस्य मासो मासार्द्ध मायायाः पुंवेदस्याष्टो वर्षाणि शेषनोकषायमनुष्यतिर्यग्गतिजाति पञ्चकौदारिकशरीरतदङ्गोपाङ्गतैजसकार्मणसंस्थानषट्कसंहननषट्कवर्णचतुष्क-तिर्यग्मनुष्यानुपूर्व्यगुरुलधूपघातपराघातोच्छ्वासातपोद्द्योतप्रशस्ताप्रशस्तविहायोगतियश: कीर्तिवर्जत्रसादिविंशतिनिर्माणनीचैर्गोत्राणां षट्षष्टयुत्तरप्रकृतीनां सागरोपमसप्तभागौ द्वौ पल्योपमासङ्घयेयभागन्यूनौ वैक्रियषट्कस्य सागरोपमसहस्रभागौ द्वौ पल्योपमासङ्ख्येय-भागन्यूनौ आहारकतदङ्गोपाङ्गतीर्थकरनाम्नमन्तःसागरोपमकोटीकोटी, ननूत्कृष्टाऽपि एतावत्ये-वासां तिसृणां स्थितिरभिहिता, सत्य, तथाऽपि ततः सङ्घयेयगुणहीनत्वेनास्या जघन्यत्वमिति सम्प्रदायः, कृतं प्रसङ्गेन प्रकृतं प्रस्तुम इति, तत्र यदुक्तं प्रदेशाधे क्षेत्रकालौ च भावं चो(चात उ)त्तरं शृण्विति तत्र प्रदेशाग्रं क्षेत्रकालौ चाभिहितौ, सम्प्रति भावमभिधातुमाहमू.(१३८१) सिद्धाननंतभागो, अनुभागा हवंति उ।
सव्वेसुवि पएसाग, सव्वजीवेसु (स) इच्छियं ।। वृ. 'सिद्धानाम्' मुक्तानामनन्तभागवर्तित्वादनन्तभागः 'अनुभागाः' रसविशेषा भवन्ति 'तु:' पूरणे' अयं चानन्तभागोऽनन्तसय एवेति, अनेनैषामानन्त्यमेवेत्थं विशिष्टमक्तं, सम्प्रति प्रदेशपरिमाणमाह-सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा-बुद्धा विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रेदशाग्रं 'सव्वजीवेसुनिज्झि(इच्छि)यंति 'सर्वजीवेभ्यः भव्याभव्येभ्योऽतिक्रान्तं ततोऽपि तेषाममन्तगुणत्वेनादिकत्वादिति सूत्रार्थः । ___ एवं प्रकृतिप्रदर्शनेन प्रकृतिबन्धप्रदेशाग्राभिधानेन च प्रदेशबन्धं कालोक्त्या च स्थितिबन्धं अनेन चानुभागमभिधाय यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपसंहारव्याजेनोपदेष्टुभाहमू.(१३८२) तम्हा एएसि कम्माणं, अनुभागे वियाणिया।
- एएसिं संवरे चेव, खवणे य जए बुहे। तिबेमि॥ - वृ. तम्ह'त्ति यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मात् 'एतेषाम्' अनन्तरमुक्तानां कर्मणां' ज्ञानावरणादीनामनुभागानुपलक्षणत्वात्प्रकृतिबन्धादीश्च 'विज्ञाय' विशेषेण-कटुकविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन वाऽवबुध्य, अनुभागानामेव च साक्षादुपादानमेषामेवाशुभानां प्रायो भवनिर्वेदहेतुत्वात्, 'एषाम्' इति कर्मणां 'संवरे' अनुपात्तानामुपादाननिरोधे 'च:' समुच्चये 'एवे' त्यवधारणे भिन्नमस्ततः 'क्षपणे च' उपात्तानां निर्जरणे 'जेए'त्ति 'यतेतैव' यत्नं कुर्यादेव, कोऽसौ ? - "बुधः' तत्त्वावगमवानिति सूत्रार्थः ॥ अमुमेवार्थमनुवादद्वारेण व्यक्तीकर्तुमाह नियुक्तिकृत्नि. [५३७] पगइठिई अनुभागं पएसकम्मं च सुट्ट नाऊणं।
एएसि संवेर खलु खवणे उसयावि जइअव्वं ॥ वृ. स्पष्टैव । 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । इत्यवसितोऽनुगमः, सम्प्रति नया:, तेऽपि प्राग्वत् ।।
अध्ययनं-३३-समासम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे
त्रयस्त्रिंशमध्ययनं सनियुक्तिः सटीकं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org