SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ २२५ अध्ययनं-३३,[नि.५३६ ] मू.(१३७६) उदहीसरिनामाणं, तीसई कोडिकोडीओ। उक्कोसिया होइ ठिई, अंतमुहुत्तं जहत्रिया ।। मू.(१३७७) आवरणिज्जाण दुण्हपि, वेयणिज्जे तहेव य। अंतराए य कम्ममि, ठिई एसा वियाहिया ।। मू.(१३७८) जयहीसरिसनामाणं, सत्तर कोडिकोडिओ। मोहनिज्जस्स उक्कोसा, अंतमुहत्तं जहन्निया। मू.(१३७९) तित्तीससागरोवमा, उक्कोसेमं वियाहिया। लिई उआउकम्मस्स, अंतमुहुत्तं जहनिया ।। मू.(१३८०) उदहीसरिसनामाणं, वीसई कोडिकोडिओ। नामओगाण उक्कोसा, अंतमुहुतं जहनिया। वृ. उदधिः-समुद्रस्तेन सदृक्-सदृशं नाम-अभिधानमेषामुधिसदृग्नामानि-सागरोपमाणि तेषां त्रिंशत्कोटीकोट्य: 'उक्कोसिय'त्ति उत्कृष्टा भवति 'स्थितिः' अवस्थान, तहा मुहूर्तस्यान्तरं अन्तर्मुहूर्त, मुहूर्तमपि न्यूनमित्यर्थः, जधन्यैव जघन्यका प्रक्रमात्स्थितिः। केषामित्याह-'आवरणीययोः' अन्यत्रैतद्यपदेशाश्रवणाज्ज्ञानदर्शविषययोः, ततो ज्ञानावरणीयदर्शनावरणीयोर्द्वयोपरपि, वेदनीये तथैव च अन्तराये च कर्मणि स्थितिरेवं व्याख्याता, इह च षष्ठीप्रक्रमेऽपि वेदनीय इत्यादौ सप्तम्यभिधानमनयोरर्थस्य तत्त्वतोऽभिन्नत्वात्, ___ "राजा भर्ता मनुष्यस्य, तेन राज्ञः स उच्यते । वृक्षस्तिष्ठति शाखासु, ता वा तत्रेति तस्य ताः॥" तथा इति वेदनीयस्यापि जघन्यस्थितिरन्तर्मुहूर्तमानैव सूत्रकारेणोक्ता, अन्ये तु 'जघन्या(अपरा) द्वादशमूहूर्ता वेदनीयस्ते'ति द्वादशमूहूर्तमानामेवैतामिच्छन्ति, तदभिप्रायं न विद्यः । उदधिसदृशनाम्नां सप्ततिकोटीकोट्य मोहनीस्योयत्कृष्टा अन्तर्मुहूर्त जघन्यका । त्रयस्त्रिंशत्सागरोपमाणि आर्षत्वाच्च सुपो लुक्, उत्कृष्टेन व्याख्यात्ता स्थितिः 'तुः' पूरणे आयुःकर्मणोऽन्तर्मुहूर्तं जघन्यका । उदधिसदृशनाम्नां विंशतिकोटीकोट्य नामगोत्रयोरुत्कृष्टा अष्ट मुहूर्ता जघन्यका इति सूत्रपञ्चकार्थः। इत्थमुत्कृष्टा जघन्या च स्थितिर्मूलप्रकृतिविषया सूत्रकारेणाभिहिता, विनेयानुग्रहार्थं तूत्तरप्रकृतिविषया प्रदर्श्यते-तत्रोत्कृष्टा स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदश सागरोपमकोटीकोट्यः, कषायषोडशकस्य चत्वारिंशन्नपुंसकारतिशोकभयजुगुप्सानां पञ्चानां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंहननसंस्थानप्रशस्तविहायोगतिस्थिरशुभसुभगसुखदादेययश:कीयुच्चैर्गोत्राणां पञ्चदशानां दश न्यग्रोधसंस्थानद्वितीयसंहननयोादश सातिसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जार्द्धनाराचयोः षोडश वामनसंस्थानकोलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामष्टादश तिर्यग्मनुष्यायुषोः पल्योपमत्रयं, अवशिष्टानां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः, जघन्या तु निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमसप्तभागास्त्रयः पल्योपमासङ्ख्येयभागन्यूना: सातस्य तु द्वादश मुहूर्ताः मिथ्यात्वस्य पल्योपमासङ्घयेयबागोनं सागरोपमं आद्य- . 29/15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy