________________
२२४
उत्तराध्ययन-मूलसूत्रम्-२-३३/१३७४ पठन्ति च-'गंठि(प)सत्ताऽणाईत्ति अत्र व्याख्यानिकव्याख्या-ग्रन्थिप्रसक्तानांधनरागद्वेषपरिणामग्रन्थि कर्कशघनरूढग्रन्थिसमंतथाविधपरिणामाभावतोऽभिन्दानानां सत्त्वानां यो बन्धः सोऽनाद्यनन्तः-आद्यन्तविकलो ज्ञेयः, सिद्धानां पुनः- भविप्य-सिद्धीनां बन्धोऽनादिरपि 'अन्त' इति सान्तस्तथाविधपरिणामतो व्याख्यातो भगवद्भिरिति सूत्रार्थ !! सम्प्रति क्षेत्रमाहम.(१३७५) सधजीवाण कमंतु, संगहे छदिसागयं।
सव्वेसुवि पएसेसु, सब्बं सव्वेण बद्धगं। वृ. सर्वे-एकेन्द्रियाद्यशेषभेदास्ते च ते जीवाश्च तेषां 'कर्म' ज्ञानावरणादि 'तुः' पूरणे सङ्ग्रह:-सङ्ग्रहणक्रिया तत्र योग्यं भवतीतिशेषः, यदिवा सर्वजीवा ‘णं'ति वाक्यभूषायां कर्मा संगहे'त्ति संगृह्णन्ति, कीदृशं सदित्याह-'छद्दिसागय'न्ति षण्णां दिशानां समाहार: षड्दिर्श तत्र गतं-स्थितं षड्दिशागतम्, अत्र चतस्रो दिशः पूर्वादय ऊर्वाधोदिगूद्वयं चेतिषड्भवन्ति, इतं चात्मावष्टब्धाकाशप्रदेशापेक्षयोच्यते, यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्म पुद्गलास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति न क्षेत्रान्तरावगाढाः, भिन्न देशस्य तद्भावपरिणामाभावात्, यथा ह्यग्निः स्वदेशस्थितान् प्रायोग्यपुद्गलानात्मभावेन परिणमयति एवं जीवोऽपीति, अल्पत्वाच्चेह विदिशामविवक्षितत्वेनषदिशागतमित्यभिधानं, यतो विदिग्व्यवस्थितमपि कर्मात्मना गृह्यते, उक्तं हि गन्धहस्तिना-"सर्वासु दिक्ष्वात्मावधिकासु व्यवस्थितान् पुद्गलानादत्ते" इति, तथा क्षेत्रप्रस्तावे यद्विदिग्निरूपणं तच्चासामाकाशादभेदज्ञापनार्थं तद्भेदेन तासामप्रतीते:, तथा च यत्कैश्चिहिशां द्रव्यान्तरत्वमुक्तं तदपास्तं भवति, तथा षड्दिग्गतमपि द्वीन्द्रियादीनेवाधिकृत्त्य नियमेन व्याख्येयमेकेन्द्रियाणामन्यथाऽपि सम्भवात्, तथा चागम:
"जीवे णं भंते ! तेयाकम्मापोग्गलाणं गहणं करेमाणे किं तिदिसिं करेति चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करे इ?, गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छद्दिसिं करेति, एगिदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जावछद्दिसिं करेति?, गोयमा! सिय तिदिसि सिय चउद्दिसिं सिय पंचदिसिंसिय छद्दिसि करेइ, बेंदियतेंदियचउरिदियपंचिंदिया नियमा छद्दिसिं"ति, तच्च षड्दिग्गतं सर्वेष्वपि न तु कतिपयेषु प्रदेशेष्वपि, अर्थादाकाशस्योक्तन्यायादात्मावष्टब्धेषु कर्म सर्वजीवानां सङ्ग्रहे योग्यं भवति, ते वा तत्संगृह्णान्ति, तत्स्थकर्मपुद्गलान् प्रत्यात्मनो ग्रहणहेत्वविशेषात्, तथा 'सर्व' समस्तं ज्ञानावरणादि न त्वन्यतरदेव, आत्मा हि सर्वप्रकृतिप्रायोग्यान् पुदगलान् सामान्येनादाय तानेवाध्यवसायविशेषात् पृथक् पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति, तच्चैवंविधं कर्म संगृहीतं सत् किं कैश्चिदेवात्मप्रदेशैर्बद्धं भवति यद्वा सर्वेणात्मना? इत्याह___ 'सर्वेण' समस्तेना प्रक्रमादात्मना न तु कियद्भिरेव तत्प्रदेशै; बद्ध-क्षीरोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम, अन्योऽन्यसम्बद्धतया हि शृङ्खलावयवानामिव परस्परोपकारित्वादात्मनः प्रदेशानां सहैव योगोपयोगी भवतो, न त्वेकैकशः, तन्निमित्तकश्च कर्मबन्ध इति सोऽपि सर्वेणैवत्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव, यद्वा तद् गृहीतं सत् केन सह कियत्कथं वा बद्धं भवति? इत्याह- "सव्वेसुवि पएसेसु" सुब्ब्यत्ययात्सर्वैरपि प्रदेशैः प्रक्रमादात्मनः 'सर्व' सर्वप्रकृतिरूपं 'सर्वेण' गम्यमानत्वात्प्रकृतिस्थित्यादिना प्रकारेण बद्धकमिति सूत्रार्थः ।। For Private & Personal Use Only
www.jainelibrary.org
Jain Education International