________________
२२३
अध्ययन-३३,[ नि.५३६ ] मू.(१३७२) दाने लाभे य भोगे य, उवभोगे वीरिए तहा।
पंचविहमंतरायं, समासेन वियाहियं ।। वृ. दीयत इति दानं तस्मिन्, तथा लभ्यत इति लाभस्तस्मिश्चं, भुज्यते-सकृदपयुज्यत इति भोगः-सकद्भोग्यः पुष्पाहारादिविषयस्तत्र च, तथा उपेतिअभ्यधिकं पुनः पुनरुपभुज्यमानतया भुज्यत इत्युपभोग:-पुनः पुनरुपभोग्यभवनाङ्ग-नादिविषयः, उक्तं हि
"संति भुज्जइत्ति भोगो सो पुण आहारपुप्फमाईओ।
उवभोगो उपुणो पुण उवभुज्जइ व भवणवणियाई ।।" तस्मिन्, विशेषण ईर्य्यते-चेष्ट्यतेऽनेनेति वीर्यं तस्मिन्, 'तथा' समुच्चये सर्वत्रान्तरायमिति प्रक्रमः, ततश्च विषयभेदात्पञ्चविधमन्तरायं समासेन व्याख्यातं, तत्रदानान्तरायं यत्सति विशिष्टे ग्रहीतरि देये च वस्तुनि तत्फलमवगच्छतोऽपि दाने प्रवृत्तिमुपहन्ति, यत्पुनर्विशिष्टेऽपि दातरि यावनिपुणेऽपि याचितरि उपलब्धिउपघातकृत् तल्लाभान्तरायं, भोगान्तरायं तु सति विभवादौ सम्बद्यमाने च आहारमाल्यादौ यद्वशान्न बङ्क्ते, उपभोगान्तरायं तु यस्योदयात्सदपि वस्त्रालङ्कारादिनोपभुक्ते, वीर्यान्तरायं यद्वशादलवानीरुग्वयःस्थ:अथ च तृणकुब्झीकरणेऽप्यसमर्थ इति सूत्रद्वादशकार्थः १२॥
इत्थं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्त्रिगमनायोत्तरग्रन्थसम्बन्धनाय चाहमू.(१३७३) एयाओ मूलपयडीओ, उत्तराओ अ आहिया।
पएसागं खित्तकाले य, भावं चादुत्तरं सुण।। वृ. एताः' अनन्तरोक्ता ज्ञानावरणादिरूपा मूलप्रकृतयः, तथा 'उत्तराः' इत्युत्तरप्रकृतयश्च श्रुतावरणाद्याः, चशब्दः श्रुतादीनामप्यक्षरानक्षरादिभेदतो बहुविधत्वदनुक्तबहुभेदसूचक: 'आख्याता:' कथिताः प्रदेशाः: परमाणवस्तेषामग्रंपरिमाणं प्रदेशाग्रं 'खेत्तकाले य'त्ति क्षेत्रकाली च तत्र क्षियन्ति-निवसन्ति तस्मिन्निति क्षेत्रम्-आकाशं कालश्चबद्धस्य कर्मणो जीवप्रदेशाविचटनात्मकः स्थितिकालः 'भावं च' अनुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकत्रिस्थानिकादिरसमितियावद् 'अतः उत्तर मिति अतः-प्रकृत्यभिधानादूर्ध्वं भृणु कथ्यमानमिति मू.(१३७४) सव्वेसिं चेव कम्माणं, पएसग्गमनंतगं।
गंठियसत्ताईयं, अंतो सिद्धाण आहियं ।। वृ. 'सर्वेषां समस्तानां 'चः' पूरणे 'एवः' अपिशब्दार्थे सर्वेषामपि न तु केषाञ्चिदेव 'कर्मणां' ज्ञानावरणादीनां प्रदेशाग्रां' परमाणुपरिमाणम् अनन्तमेवानन्तकमनन्तपरमाणुनिष्पन्नत्वात्तद्वर्गणानां, तच्चानन्तकं ग्रन्थिरिव ग्रन्थिः-घनो रागद्वेषपरिणामस्तं गच्छन्ति ग्रन्थिगास्ते च ते सत्त्वाश्च ग्रन्थिगसत्त्वाः-ये ग्रन्थिप्रदेशं गत्वाऽपितभेदाविधानेन न कदाचिदुपरिष्टाद्गन्तार: ते चाभव्या एवात्र गृह्यन्ते तानतीतं-तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा अन्तः' मध्ये 'सिद्दानां' सिद्धिपदप्राप्तानाम् आख्यातं' कथितं गणधरादिभिरिति गम्यते, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वाद्, अत: सङ्ख्यामपेक्ष्य सिद्दान्तर्ति तदनन्तकमुच्यते, एकसमये ग्राह्यकर्मपरमाण्वपेक्षं चैतत्, उक्तं हि-"ते य कम्मपोग्गला भवसिद्धिएहिं अनंतगुणा सिद्दाणमणंतभागमित्ता एगेगमिसमए गहणमिति"त्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org