________________
अध्ययनं-३४,[ नि. ५४९]
२३१ सम्प्रदायः- "वत्राहिगारे जो एत्थ कोइलच्छदो सो तेलकंटतो भन्नइ"ति, क्वचित्तु पठ्यते च-'कोइलच्छवि'त्ति, तत्र कोकिल:-अन्यपुष्टस्तस्य छविस्तत्संनिभा, पासपतः पक्षिविशेषस्तस्य ग्रीवा-कन्धरा निभा कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिच्च लोहितेति भावः, तथा च प्रज्ञापना-"काऊलेसा काललोहितेन वनेणं साहिज्जइ"त्ति, मू. ( १३८९) हिंगुलुयधाउसंकासा, तरुणाइच्चसंनिभा।
सुयतुंडपईवनिभा, तेउलेसा उ वनओ ।। वृ. हिङ्गलुक:-प्रतीतो धातुः-पाषाणधात्वादिस्तत्सङ्काशा, तरुण इहाभिनवोदितः आदित्यः- सूर्यस्तत्संनिभा, शुकः-प्रसिद्धस्तस्य तुण्डं-मुखं शुकतुण्डं तच्च प्रदीपश्च तन्निभा वा, पठन्ति च -'सुयतुंडालत्तदीवाभा' अन्ये तु 'सुयतुंडग्गसंकासा' द्वयमपि स्पष्टं, तेजोलेश्या तु वर्णतो रक्तेति भावार्थः। मू.(१३९०) हरियालभेयसंकासा, हलिहाभेदसंनिभा।
सनासणकुसुमनिभा, पम्हलेसा उवनओ।। मू. (१३९१) संखंककुंदसंकासा, खीरधारसमप्पभा।
रययहारसंकासा, सुक्कलेसा उवाओ॥ वृ. हरितालो-धातुविशेषस्तस्य भेदो-द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि वर्णप्रकर्षों भवतीतिभेदग्रहणं, हरिद्रेह पिण्डहरिद्रा तस्या भेदस्तत्संनिभा, सणोधान्यविशेषोऽसनोबीयकस्तयोः कुसुमं तन्निभा पद्मलेश्या तु वर्णत:पीतेति गर्भार्थः । शङ्ख:-प्रतीतोऽङ्कोमणिविशेष: कुन्दः-कुन्दकुसुमं तत्सङ्काशा, क्षीरं-दुग्धं तूलकं-तूलं पाठान्तरतः पूरो वाक्षीरप्रवाहः, अन्ये तु 'धारि'त्ति पठन्ति, तद्ग्रहणं तु भाजनस्थस्य हि तद्वशादन्यथात्वमपि संभवतीति तत्समप्रभा, रजतं-रूप्यं हारो-मुक्ताकलापस्तत्सङ्काशा शुक्ललेश्या तु वर्णतः शुक्लेति हृदयमिति सूत्रषट्कार्थः !! इत्युक्तो वर्णः सम्प्रति रसमाहमू.(१३९२) जह कडुयतुंबरसो निबारसो कडुयरोहिणिरसो वा।
इत्तोवि अनंतगुणो रसो उ कण्हाइ नायव्वो।। वृ. 'यथे'ति सादृश्ये ततश्च यादृक् कटुकतुम्बकस्य रस-आस्वादः कटुकतुम्बकरसः 'निम्बरसः' प्रतीतः कटुका चासौ रोहिणी च-त्वग्विशेषः कटुकरोहिणी कटुकत्वाव्यभिचारित्वेऽपि तद्विशेषणमतिशयख्यापकं तद्रसो वा, औषधीविशेपो वा कटुकेह गृह्यते, 'यथे'ति सर्वत्रापेक्षते, इतोऽपि कटुकतुम्बकरसादेरनन्तेन-अनन्तराशिना गुणनं गुणो यस्यासावनन्तगुणो 'रसस्तु' आस्वादः 'कृष्णायाः' कृष्णलेश्याया: 'ज्ञातव्यः' अवबोद्धव्योऽतिकटुक इति तात्पर्यम्। मू.(१३९३) जह तिकडुयस्स य रसो तिक्खो जह हथिपिप्पलीए वा।
इत्तोवि अनंतगुणो रसो उनीलाइ नायव्यो। वृ. 'यथा' यादृशः 'त्रिकटुकस्य' प्रसिद्धस्य रसस्तीक्ष्णः-कटुर्यथा 'हस्तिपिप्पल्या वा' गजपिप्पल्या वाऽतोऽप्यनन्तगुणो रसस्तु नीलाया ज्ञातव्योऽतिशयतीक्ष्ण इति हृदयम् । मू.(१३१४) जह तरुणअंबयरसो तुवरकवित्थस्स वावि जारिसओ।
इत्तोवि अनंतगुणो रसो उकाऊइ नायव्यो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org