________________
२१८
उत्तराध्ययन-मूलसूत्रम्-२-३२/१३५७ इति परिसमाप्तौ, ब्रवीमिति पूर्ववत् । अवसितोऽनुगमो, नयाश्च प्राग्वत् ।।
अध्ययनं ३२ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे द्वात्रिंशमध्ययनं सनियुक्तिः सटीकं परिसमाप्तम्
(अध्ययनं-३३-कर्मप्रकृतिः) वृ. व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानीं त्रयस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च 'मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः' इतिवचनात्कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थिति: ? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह नियुक्तिकृत्नि. [५३१] कम्ममि अ निक्खेवो चउव्विहो० ॥ नि. [५३२] जाणगभवियसरीरे तव्वइरित्ते च तं भवे दुविहं ।
कम्मे नोकम्मे या कम्मंमि अ अनुदओ भणिओ। नि. [५३३] नोकम्मदव्वकम्मं नायव्वं लेप्पकम्ममाईअं।
भावे उदओ भणिओ कम्मट्ठविहस्स नायब्वो।। नि. [५३४] निक्खेवो पयडीए चउव्वि० ॥ नि. [५३५] जाणगभवियसरीरे तव्वइरित्ते च तं भवे दुविहं ।
कम्मे नोकम्मे या कम्मंमि अ अनुदओ भणिओ। नि. [५३६] नोकम्मे दब्वाइं गहणपाउग्गमुक्रगाइं च।
भावे उदओ भणिओ मूलपयडि उत्तराणं च ।। वृ. कम्मंमीत्यादि गाथाः षट् सुगमाः नवरं कर्मणि' ज्ञानावरणादिके उदयो-विपाकस्तदभावोऽनुदयो भणितः, किमुक्तं भवति?-अनुदयावस्थं कर्मैव कर्मकार्याकरणात् तद्व्यतिरिक्तं द्रव्यकर्म, नोकर्मद्रव्यकर्म ज्ञातव्यं लेप्यकर्मादिकम्, आदिशब्दात्काष्ठकर्मादिपरिग्रहः, नोकर्मता चास्यज्ञानावरणादिकर्माभावरूपत्वात, द्रव्यकर्मता च द्रव्यस्यप्रतिमादेः क्रियमाणत्वात्, 'भावे' विचार्ये प्रक्रमात्कर्म उदयः' विपाक: 'भणित:' उक्तः, अयं च कस्य सम्बन्धी ज्ञायताम् ? इत्याह-'कम्मट्ठविहस्स'त्ति प्राग्वदष्टविधकर्मणो ज्ञातव्यो, ज्ञानावरणाद्यष्टविधकर्मोदयावस्थं भावकर्म, तस्यैव कर्मकार्यकरणादिति भावः।।
प्रकृतिनिक्षेपे कर्मणि-मूलप्रकृत्यादिरूपेऽनुदयस्तद्यतिरिक्ता द्रव्यप्रकृतिः, नोकर्माणि द्रव्याणि ग्रहणप्रायोग्यानि यान्यद्यापि तावत्र गृह्यन्ते ग्रहणयोग्यता चास्ति येषाम्, आर्षत्वात्सुपो लुक, तथा मुक्तान्येव मुक्तकानि-यानि कर्मतया परिणमय्य प्रोज्झितानि यथाक्रमं पुरस्कृतपश्चात्कृतपर्यायत्वाद्, 'भाव' इति भावे विचार्ये 'उदयः' विपाक: 'भणितः' उक्तः प्रकृतिरिति प्रक्रमः, कासामित्याह-'मूलपगडि उत्तराणं च' त्ति मूलप्रकृतीनामुत्तरप्रकृतीनां चेहैव वक्ष्यमाणानामिति ।। इत्यवसितो नामनिप्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org