________________
अध्ययनं-३२,[ नि.५३०] मनयोः सूच्यते, ततश्च यदुक्तं युगपदुपयोगवादिना
___ "मनपज्जवणाणतो नाणस्स य दंसणस्स य विसेसो ।
केवलनाणं पुन दंसणन्ति नाणंति य समाणं ।। त्ति, तन्निराकृतं भवति, तथा प्रज्ञप्त्यामभिहितम्--"जं समयं जाणंति नो तं समयं पासंति, तथा केवली णं भंते ! इम रयणप्पमं पुढवि आगरेहिं हेऊहिं पमाणेहिं संठाणेहिं परिवारहिं जं समयं जाणइ नो तं समयं पासति?, हंता गोयमा! केवली न" मित्यादि, न चात्र केवलिशब्देन छद्मस्थ एव श्रुतकेवल्यादिविवक्षित इति वाच्यं, यत इहाद्यसूत्रे स्नातक एव प्रस्तुतः, स च धातिकर्मक्षयादेव भवतीति न तस्य छद्मस्थता संभवेत्, द्वितीयसूत्रे तु परमाणुदर्शनमेव प्रक्रान्तं, तस्य च केवलं विना परमावधेस्ततो वा किञ्चिन्न्यूनस्यैव सम्भवस्तत्र च तौ व्यवच्छेदिताविति केवलमेवावशिष्यते, उक्तं च पूज्यैः
"ते दोऽवि विसेसेउं अन्नो छउमत्थकेवली को सो? ।
जो पासइ परमाणुं गहणमिहं जस्स होज्जाहि॥" न चैवमप्यस्मिन् विशेषवति सूत्रे परवक्तव्यतैवेयमित्युपगन्तुमुचितम्, उक्तं हि
"एवं विसेसियंमिवि परमयमेगंतरोवओगोत्ति।
न पुन उभओवओगा परवत्तव्वत्ति का बुद्धी ? ।।" इत्यादि कृतं प्रसङ्गेन प्रकृतमुच्यते-तथा चामोहन:-मोहरहितो भवति, तथा निष्क्रान्तोऽतरायो(यात्) निरन्तरायोऽनाश्रवः प्राग्वत् , ध्यान-शुक्लध्यानं तेन समाधिः-परमस्वाथ्यं तेन युक्तः-सहितो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वान्नामगोत्रवेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षम् 'उपैति' प्राप्नोति 'शुद्धः' विगतकर्ममल इति सूत्रार्थः ।। मू.(१३५६) सो तस्स सधस्स दुहस्स मुक्खो, जं बाहई सययं जंतुमेयं ।
दीहामयविप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थो ।। वृ. 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजरामरणरूपत्वेन प्रतिपादितात् 'सर्वस्मात्' निरवशेषाद् दुःखात् सर्वत्र सुब्व्यत्ययेन षष्ठी 'मुक्तः पृथग्भूतः, यत् कीदृशगित्याह-'यद्' दुःखं 'बाधते' पीडयति सततम्' अनवरतं 'जन्तुं' प्राणिनम् ‘एनं' प्रत्यक्षमनुभवोपदर्शनमेतत्, दीर्घाणि यानि स्थितित: प्रक्रमात्कर्माणि तान्यामया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः'प्रशंसाहः, ततः किमित्याह-'तो' इति तत:' दीर्घामयविप्रमोक्षाद् भवति' जायतेऽत्यन्तम्-अतिक्रान्तपर्यन्तं सुखं-शर्मतदस्यास्तीत्यत्यन्तसुखी तत एव च कृतार्थः कृतसकलकृत्य इति सूत्रार्थः ।। म.(१३५७)अनाइकालप्पभवस्स एसो, सबस्स दुक्खस्स पमुक्खमांगो।
वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ॥ तिबेमि। वृ. 'अनादिकालप्रभवस्य' अनादिकालोत्पन्नस्य 'एषः' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायः, पाठान्तरतश्च संसारचक्रस्य विमोक्षामार्गो, व्याख्यातः, यः कीदृशः? इत्याह-'यं' दुःखप्रमोक्षमार्ग समुपेत्य' सम्यक्प्रतिपद्य 'सत्त्वाः' प्राणिनः ‘क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति सूत्रार्थः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org