SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ २१६ उत्तराध्ययन-मूलसूत्रम्-२-३२/१३५३ वसायास्तेषां विकल्पना:- सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासूपस्थितस्य-उद्यतस्येति सम्बन्धः, किमित्याह-'संजायते' समुत्पद्यते 'समय'ति आर्षत्वात् 'समता' माध्यथ्यमर्थान्-इन्द्रियार्थान् रूपादींश्चस्य भिन्नक्रमत्वात्सङ्कल्पयतश्च-यथा नैवैतेऽपायहेतवः किन्तु ? रागादय एवेत्युक्तनीत्या चिन्तयतो यदिवा समता-परस्परमध्यवसायतुल्यता सा चानिवृत्तिबादरसम्परायगुणस्थान एव, एतत्प्रतिपत्तॄणां हि बहूनामप्येकरूप एवाध्यवसाय इत्यनयैतदुपलक्ष्यते, तथा अर्थान्' जीवादीन् 'संकल्पयतश्च' शुभध्यानविषयतयाऽध्यवस्यतः 'ततः' इति समतायाः 'से' तस्य जन्तोः (साधोः) प्रहीयते' प्रकर्षण हानि याति, काऽसौ ?'कामगुणेषु' रूपादिषु तृष्णा' अभिलाषो लोभ इतियावत्, समतायां हि द्विविधायामपि प्राप्तायामुत्तरोत्तरगुणस्थानावाप्त्या क्षीयत एव लोभ इति । अथवा 'एवम्' उक्तप्रकारेण 'समकम्' एककालम् 'उपस्थितस्य' उद्यतस्य रागाद्युद्धरणोपायेष्विति प्रक्रमः, यदिवा 'समयम्' एतदभिधायकं सिद्धान्तं प्रतीति शेष: 'उपस्थितस्य' तदुक्तार्थानुष्ठानोद्यतस्येत्यर्थः, किमित्याहस्वसङ्कल्पानाम्-आत्मसम्बन्धिनां रागाद्यध्यवसायानां विकल्पना-विशेपेण छेदनं स्वसङ्कल्पविकल्पना, दृश्यते हि छेदवाच्यपि कल्पशब्दः, यथोक्तम् "सामर्थ्य वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ।।" 'आसुति 'आशु' शीघ्रं 'संजायते' भवति, पठन्ति च-'ससंकप्पविकप्पणासो'त्ति, तथा 'अत्थे असंकप्पयतो'त्ति, तत्र, च स्वस्य-आत्मनः सङ्कल्पः-अध्यवसायस्तस्य विकल्पारागादयो भेदास्तेषां नाश:-अभावः स्वसङ्कल्पविकल्पनाशः, तथाको गुणः? इत्याह-'अर्थान' रूपादीन् 'असङ्कल्पयतः' रागादिविषयतयाऽनध्यवस्यतः 'ततः' इति स्वसङ्कल्पविकल्पनातः स्वसंकल्पविकल्पनाशाद्वा से' तस्य प्रहीयते कामगुणेषु तृष्णेवि सूत्रार्थः ।। ततः स कीदृशः सन् कि विधत्ते ? इत्याहमू.(१३५४ ) सो वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं। तहेव जं दरिसणमावरेइ, जंचंतरायं पकरेइ कम्म। वृ. 'सः' इति होनतृष्णः 'वीतरागः' विगतरागद्वेषो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणकषायगुणस्थानावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनने मुक्तः 'क्षपयति' क्षयं नयति 'ज्ञानावरणं' वक्ष्यमाणस्वरूपं 'क्षणेन' समयेन तथैव यद् ‘दर्शनं' चक्षुर्दर्शनादि आवृणोति' स्थगयति दर्शनावरणमित्यर्थः, यच्च 'अन्तरायं' दानादिलब्धिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकमित्युक्तं भवति, स हि क्षपितमोहनीयस्तीर्णमहासागर इव श्रमोपेतो विश्रम्यान्तर्मुहूर्तं तद्विचरसमये निद्राप्रचले देवगत्यादिनामप्रकृतीश्च क्षपयति, चरमसमये च ज्ञानावरणादित्रयमिति सूत्रार्थः॥ तत्क्षयाच्च कं गुणमवाप्नोति? इत्याहमू.(१३५५) सव्वं तओ जाणई पासई य, अमोहणो होइ निरंतराए। अनासवे जाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे॥ वृ.'सर्व' निरवशेष 'ततः' ज्ञानावरणादिक्षयात् 'जानाति विशेषरूपतयाऽवगच्छति पश्यति च सामान्यरूपतया 'च:' समुच्चयार्थः, तत एतेन भेदविषयत्वात्समुच्चयस्य पृथगुपयोगत्व www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy