________________
२१२
-
-
अध्ययनं-३३,[नि.५३६ ] मू. ( १३५८) अट्ठ कम्माई वुच्छामि, आनुपुब्धि जहक्कम।
जेहिं बद्धे अयं जीवे, संसारे परिवत्तए । वृ. 'अष्ट' इत्यष्टसङ्खयानि क्रियन्ते मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि 'वक्ष्यामि' प्रतिपादयिष्ये 'आनुपुव्वि'न्ती प्राग्वत्सुब्ब्यत्ययादानुपूा, इयं च पश्चानुपूर्व्यादिरपि संभवत्यत आह-'यथाक्रम' क्रमानतिक्रमेण पूर्वानुपूर्येतियावत्, पठन्ति च 'सुणेह मे' इति प्राग्वत्, यानि कीदृशीत्याह-'यैः' कर्मभिः 'बद्धः' श्लिष्टः 'अय'मिति प्रतिप्राणिस्वसंवेद्यो जीवः संसारे परिवर्त्ततेऽज्ञतादिविविधपर्यायानुभवनतोऽन्यथा च अन्यथा च भवति परिभ्रमति वा पाठान्तरत इति सूत्रार्थः ।। यथाप्रतिज्ञातमाहमू.(१३५९) नाणस्सावरनिजं, दसणावरणं तहा।
वेयनिज्जंतहा मोहं, आउकम्मं तहेव य।। मू.(१३६०) नामकम्मं च गोयं च, अंतरायं तहेव य।
एवमेयाइंकम्माई, अदेव य समासओ।। वृ. ज्ञायतेऽनेनेति ज्ञानम्-अवबोधस्तस्य आवियते-सदण्याच्छाद्यतेऽनेन पटेनेव विवस्व-- त्प्रकाश इत्यावरणीयं कृत्यल्युटो बहुल' मिति वचनात्करणेऽनीयः, दृश्यतेऽनेनेति दर्शनंसामान्यावबोधस्तदावियते वस्तुनि प्रतीहारेणेव नृपतिदर्शनमनेनेति दर्शनावरणं, तथा वेद्यतेसुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयं, तथा मोहयति जानानमपि मद्यपानवद्विचित्तताजननेनेति मोहस्तम्, आयाति-आगच्छति स्वकृतकर्मावाप्तनरकादिकुगतेनिष्क्रमितुमनसोऽप्यात्मनो निगडवत्प्रतिबन्धकतामित्यायुः तदेव कर्म आयुःकर्म तथैव च।
नमयतिगत्यादिविविधभावानुभवनं प्रत्यात्मानं प्रवणयति चित्रकर इव करितुरगादिभावं प्रति रेखाकृतिमिति'नामकर्म, 'चः' समुच्चये, गीयते-शब्द्यते उच्चावचैः शब्दैः कुलालादिव मृद्रव्यमत आत्मेति गोत्रं तच्च अन्तरा-दातृप्रतिग्राहकयोरन्तर्भाण्डागारिकवद्विघ्नहेतुतयाऽयतेगच्छतीत्यन्तरायं तथैव च सर्वत्रासदपि कर्मेति संबध्यते, उपसंहारमाह-'एवम्' अमुना प्रकारेणैतानि कर्माण्यष्टैव 'तुः' पूरणे 'समासात:' सङ्केपेण, विस्तरतस्तु यावन्तो जन्तुभेदास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः ।। __ अत्र च ज्ञानदर्शनस्वतत्त्वोऽयमात्मेत्यन्तरङ्गत्वात्तयोरादितस्तदावरणोपादानं, समानेऽपि च तयोरन्तरङ्गत्वे ज्ञानोपयोग एव सर्वलब्धीनामवाप्तिः, यदुक्तम्- "सव्वाओ लद्धीओ सागारोवओगाउत्तस्स"त्ति, अतो ज्ञानस्य प्राधान्यमिति तदावरणस्य प्रथमस्तदनु दर्शनावरणस्य ततः केवलिनोऽप्येकविधबन्धकस्य सातबन्धोऽस्तीति व्यापित्वाद्वेदनीयस्स ततोऽपि प्रायः संसारिणामिष्टानिष्टविषयसम्बन्धात्सुखदुःखे इष्टानिष्टता च रागद्वेषाभ्यां तद्रूपं च प्रायो मोहनीयमिति तस्य ततश्चैतत्प्रकर्षापकर्षभावित्वादायुर्निबन्धनानांबबारम्भपरिग्रहत्वाल्पारम्भ- . परिग्रहत्वादीनां तदुद्भवं चायुष्कमिति तस्य तदुदयश्च प्रायो गत्यादिनामोदयाविनाभावीति ततो नाम्नः ततोऽपि च नरकादिनामोदयसहभाव्येय गोत्रकर्मोदय इति गोत्रस्य ततश्चोच्चनीचभेदभिन्नात्प्रायो दानादिलब्धिभावाभावौ तयोश्चान्तरायक्षयोदयावन्तरङ्गहेतू इति तदनन्तरमन्तरायस्येति सूत्रद्वयार्थः ।। इत्थं कर्मणो मूलप्रकृतीरभिधायोत्तरप्रकृतीराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org