________________
अध्ययनं-३२,[ नि.५३०]
२०१ एगोवि पावाइ विवज्जयंतो, विहरेज्ज कामेस असज्जमानो। वृ. 'न' निषेधे वाशब्दश्चेदर्थे ततश्च न चेत् 'लभेत्' प्राप्नुयात् 'निपुणम्' इति निपुणबुद्धि 'सहाय' गुणैः-ज्ञानादिभिरधिकम्--अर्गलं गुणाधिकं वा 'गुणतः' इति ज्ञानादिगुणानाश्रित्य 'समं वा' तुल्यमुभयत्रात्मन इति गम्यते, 'वे'ति विकल्पे, ततः किमित्याह- एकोऽपि' असहायोऽपि 'पापानि' पापहेतुभूतान्यनुष्ठानानि 'विवर्जयन्' विशेषेण परिहरन् 'पठ्यते च'अनायरंतो'त्ति अनाचरन् ‘विहरेत्' संयमाध्यवनि यायात् 'कामेषु' विषयेषु 'असजन्' प्रतिबन्धमकुर्वन्, तथाविधगीतर्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निपिद्धत्वात्, एतदविधाने च 'मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवतीति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम् । इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तम्, इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात्तत्क्षयस्यैव प्राधान्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थं यथा तेषां सम्भवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथा वि(ऽभि)धातुमाहम.(१२५२) जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य।
एमेव मोहाययणं खं तण्ह, मोहं च तण्हाययणं वति ।। व. 'यथा चे'त्ति येनैव प्रकारेणाण्डं-प्रतीतं ततः प्रभव-उत्पत्तिर्यस्याः साऽण्डप्रभवा 'बलाका' पक्षिविशेषः, अण्डं बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, किमुक्तं भवति?यथाऽनयोः परस्परमुत्पत्तिस्थानता एवमेव' अनेनैव प्रकारेण मोहयति-मूढतां नयत्यात्मानमिति मोहः-अज्ञानं तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, उक्तं हि-"जह दुव्वयणमवयण"मित्यादि, आयतनम्-उत्पत्तिस्थानं यस्याः सा मोहायतना तो 'खुः' अवधारणे ततो मोहायतनामेव 'तण्ह'न्ति तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षय इति, मोहं च तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति मूर्छा, म.(१२५३) रागो य दोसोविय कम्मबाीयं, कम्मं च मोहप्पभव वयंति।
कम्म च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति॥ वृ.सा चात्यन्तदुस्त्यजेति रागप्रधाना ततस्तया रागउपलक्ष्यते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयैवाक्षिप्यते ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, एतयोश्चानन्तानुबन्धिकषायरूपयो: सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकपायवीतरागस्यापि मिथ्यात्वगमनं, तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवस्तथोक्तं, सम्प्रति यथैतेषां दुःखहेतुत्वं तथा वक्तुमाह
'रागश्च' मायालोभात्मक: 'द्वेषोऽपि च' क्रोधमानात्मक: कर्मज्ञानावरणादि तस्य बीजंकारणं कर्मबीजं, कर्म चस्य भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च-मोहकारणं वदन्ति । 'च:' सर्वत्र समुच्चये 'कर्म च' इति कर्म पुनर्जातयश्च मरणानि च जातिमरणं तस्य 'मूलं' कारणं 'दु:खं' संसारमसातपक्षे तु दुःखयतीति दुःखं, कोऽर्थः?-दुःखहेतुं, चस्य् पुनरर्थस्य भित्रक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकरादय इति गम्यते, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात्, उक्तं हि
"मरणास्स जं दुक्खं, जायमाणस्स जंतुणो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org