________________
२०२
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२५३ तेन दुक्खेण संतत्तो, न सरति जातिमप्पणो।।" मू. (१२५४ )दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा।
तण्हा हया जस्सन होइ लोभो, लोभो हओ जस्स न किंचणाई।। वृ.यतश्चैवमतः किं स्थितिमित्याह-'दुःखम्' उक्तरूपं हतमिव हतं, केनेत्याह-यस्य 'न भवति' न विद्यते, कोऽसौ ?-मोहः, अस्यैव तन्मूलकारणत्वात्, ततो हि कर्म कर्मणश्च दुःखमित्यनन्तरमेवोक्तं, हतमिव हतमिति च व्याख्यातं तत्क्षयेऽपि नारकादिगतौ स्वतत्त्वभावनापरस्यापि कियतोऽपि दुःखस्य सम्भवात्, यदिदुःखसहननं मोहाभावाद् असावपि कुत इत्याहमोहो हतो यस्य न भवति तृष्णा, कोऽर्थः?-तृष्णाया अभावान्मोहाभावः, तदायतनत्वेन तस्या अभिधानात्, तृष्णाया अपि कुतो हननमित्याह-तृष्णा हता यस्य न भवति लोभः, किमुक्तं भवति?-लोभाभावात्तृष्णाऽभावः, तृष्णाग्रहणेनोक्तनीत्या रागद्वेषयोरुक्तत्वात्तयोश्च लोभक्षये सर्वथैवाभावाद्, अत एव प्राधान्याल्लोभस्य रागान्तर्गतत्वेऽपि पृथगुपादानं, दृश्यते हि प्रधानस्य सामान्योक्तावपि विशेषोक्त्यभिधानं, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, स तहि केन हत इत्याह-लोभो हतो यस्य न किञ्चिद्विद्यते द्रव्यादिकमिति गम्यत इति सूत्रार्थः ।।
सन्त्वेयं दुःखस्य मोहादयो, हेतवो, हननोपायस्तेषां किमयमेवोतान्योऽप्यस्ति? इत्याशङ्कय सविस्तरं तदुन्मूलनोपायं विवदिषुः प्रस्तावमारचयतिमू.(१२५५) रागं च दोसं च तहेव मोह, उद्धत्तुकामेप्प समूलजालं।
जे जे उवाया पडिवज्जियव्वा, ते कित्तइस्सामि अहाणुपुचि ।। वृ. स्पष्टं, नवरं यदिह रागस्य प्रथममुपादानं पूर्वं तु मोहस्य तत् मोहस्य रागद्वेषयोश्च परस्परायत्तत्वेन पूर्वापरभावस्यानियमात्, तथा उद्धर्तुकामेन' इत्युन्मूलयितुमिच्छता सह मूलानामिव मुलानां-तिव्रकषायोदयादीनां मोहप्रकृतीनां जालेन-समहेन वर्त्तत इति समलजालस्तम्, एतच्च रागादीनां प्रत्येकं विशेषणम्, 'उपाया:' तदुद्धरणहेतवः 'प्रतिपत्तव्याः' अङ्गीकर्तव्याः कर्तुमिति गम्यते, पठ्यते च-'अपाया परिवज्जियव्वा' इति 'अपायाः' तदुद्धरणप्रवृत्तानां विबन्धकारिणोऽर्थाः 'परिवर्जयितव्याः' परिहर्तव्या इति सूत्रावयवार्थः ।। यथाप्रतिज्ञातमेवाहमू. ( १२५६) रसा पगामं न हु सेवियव्वा, पायं रसा दित्तिकरा नराणं।
दितं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी।। मू. (१२५७) जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ ।
एविदियग्गीवि पगामभोइणो, न बंभयारिस्स हियाय कस्सई। मू.(१२५८) विवत्तसिज्जासणजतियाणं, ओमासणाणं दमिइंदियाणं।
नरागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसेहेहिं ।। मू. (१२५९) जहा बिरालावसहस्स मूले, न मुसगाणं वसही पसत्था।
एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो।। मू. (१२६०) नरूवलावनविलासहासं, न जंपियं इंगियं पेहियं वा।
इत्थीण चित्तसि निवेसइत्ता, दढ़ ववस्से समणे तवस्सी॥ मू. (१२६१) अदंसणं चेव अपत्थणं च, अचिंतनं चेव अकित्तणं च।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org