________________
२००
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२४. नन्वस्तु ज्ञानादिभिर्दुःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ?, उच्यतेमू.(१२४९) तस्सेव मग्गो गुरुविद्धसेवा, विवज्जणा बालजनस्स दूरा।
सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणयाधिई य॥ वृ. तस्येति योऽयमनन्तरं मोक्षोपाय उक्तः 'एषः' अनन्तरवक्ष्यमाणः 'मार्गः' पन्थाः प्राप्तिहेतुः, यदुत गुरवो-यथावच्छस्त्राभिधायका वृद्धाश्च- श्रुतपर्यायादिवृद्धास्तेषां सेवापर्युपासना गुरुवृद्धसेवा, इयं च गुरुकुलवासोपलक्षणं, तत्र च सुप्रापान्येव ज्ञानादीनि, यदुक्तम्
__ "नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य।
धन्ना आवकहाए गुरुकुलवासं न मुंचंति।।" त्ति, सत्यपि चगुरुकुलवासे कुसंसर्गतो न स्यादेव तत्प्रासिरित्याह-'विवर्जना' विशेषण परिहार: 'बालजनस्य' पार्श्वस्थादेः 'दूरात्' दूरेण, तत्सङ्गस्याल्पीयसोऽपि महादोषनिबन्धत्वेनाभिहितत्वात्, तत्परिहारेऽपि च न स्वाध्यायतत्परतां विना ज्ञानाद्यवाप्तिरित्याह-स्वाध्याये-उक्तरूपे एकान्तेन-इतरव्यासङ्गपरिहारात्मकेन निवेशना-स्थापना स्वाध्यायैकान्तनिवेशना सा च मनोवाक्कायानामिति गम्यते, पठन्ति च-'सज्झायएगंतणिसेवणाए'त्ति, स्वाध्यायस्यैकान्तनिवेषणा-निश्चयेनानुष्ठानं स्वाध्यायैकान्तनिषेवणा, सा तत्रापि 'वृथा श्रुतचिन्तित' - मितिकृत्वाऽनुप्रेक्षैव प्रधानेत्यभिप्रायेणाह-सूत्रस्यार्थ:-अभिधेयः सूत्रार्थस्तस्य संचिंतणय'त्ति सूत्रत्वात्संचिन्तना सूत्रार्थसंचिन्तना, अस्यामपि न चित्तख्यास्थ्यं विना ज्ञनादिलाभ इत्याह'धृतिश्च' चित्तस्वास्थ्यमनुद्विग्नत्वमित्यर्थः इति सूत्रार्थः ।।।
यतश्चैवंविधो ज्ञानादिमार्गस्तत एतान्यभिलषता प्राक् किं विधेयमित्याहमू.(१२५०) आहारमिच्छे मियमेसनिजं, सहायमिच्छे निउणत्थबुद्धि।
निकेयमिच्छज्ज विवेगजोग, समाहिकामे समणे तवस्सी॥ वृ.'आहारम्' अशनादिकम् ‘इच्छेत्' अभिलषेन्मितमेषणीयम्, अपेर्गम्यमानत्वादिच्छेदप्येवंविधमेव, दानभोजने तु दूरोत्सारिते एव अनेवंविधाहार (स) एव ह्यनन्तरोक्तं गुरुवृद्धसेवाज्ञानादिकारणमाराधयितुं क्षमः, तथा सहायं' सहचरमिच्छेद्गच्छान्तर्वर्ती सनिति गम्यते,अ निपुणा-कुशला अर्थेषु-जीवादिषु बुद्धि:-मतिस्येति निपुणार्थबुद्धिस्तं, पठ्यते च-'निउणेहबुद्धि' तत्र निपुणा-सुनिरूपिता ईहा-चेष्टा बुद्धिश्च यस्य स तथा, अनीदृशो हि सहायः स्वाच्छन्योपदेशनादिना ज्ञानादिकारणगुरुवृद्धसेवादिभ्रंशमेव कुर्यादिति, तथा 'निकेतम्' आश्रयमिच्छेद् विवेकः-पृथाभावः स्त्र्यादिसंसर्गाभाव इतियावत्तस्मै योग्यम्- उचितं तदापाताद्यसम्भेव विवेकयोग्यम्, विविक्ताश्रये हि स्त्र्यादिसंसर्गाच्चित्तविप्लवोत्पत्तौ कुतो गुरुवृद्धसेवादिज्ञानादिकारणं संभवेत् ?, समाधि कामयते-अभिलषति समाधिकामः, अत्र च समाधिव्यभावभेदाद्विभेदः, तत्र द्रव्यसमाधिः क्षीरशर्करादिद्रव्याणां परस्परमविरोधेनावस्थानं भावसमाधिस्तु ज्ञानादीनां परस्परमबाधयाऽवस्थानंतदनन्यत्वाच्च ज्ञानादीनामयमेवेह गृह्यते, तथा च ज्ञानाद्यवासुकाम इत्युक्तं भवति, श्रमणस्तपस्वीति प्राग्वदिति सूत्रार्थः ।।
कालादिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं तदाहमू.(१२५१)न वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org