________________
१९९
अध्ययनं-३२,[ नि.५२९]
वृ.'येषां' प्राणिनां 'तुः' पूरणे प्रमादेनोपलक्षितानां 'गच्छति' व्रजति कालः 'निरर्थकः' निष्प्रयोजनः क्व?-'धर्मे' धर्मविषये धर्मप्रयोजनरहितः इत्यर्थः, प्रमादतो हि नश्यन्त्येव धर्मप्रयोजनानि, ते किमित्याह-संसारम् 'अनन्तम्' अपर्यवसितं 'हिण्डन्ते' भ्राम्यन्ति प्रमाददोषेण' हेतुनेति गाथार्थः ।। यतश्चैवं ततः किं कर्त्तव्यमित्याहनि. [५३०] तम्हा खलुप्पमायं चइऊणं पंडिएण पुरिसेणं।
दंसणनाणचरिते कायव्यो अप्पमाओ उ॥ वृ. तस्मात्, 'खलु' निश्चयेन प्रमादं त्यक्त्वा ‘पण्डितेन बुद्धिमता पुरुषेण उपलक्षणात्वात्स्यादि च, दर्शनं च ज्ञानं च चारित्रं चेति समाहारस्तस्मिन् मुकितमार्गतया प्रागभिहिते 'कर्त्तव्यः' विधेयः 'अप्रमादः' उद्यमः 'तुः' अवधारणार्थ इत्यप्रमाद एव न तु कदाचित्प्रमाद:, तस्यैवं दोषदुष्टत्वादिति गाथार्थः । इत्यवसितो नामनिष्पन्न निक्षेपः। मू.(१२४७ )अच्चंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो।
तंभासओ मे पडिपुत्रचित्ता!, सुणेह एगग्गहियं हियत्थ। वृ.अन्तमतिक्रान्तोऽत्यन्तो, वस्तुनश्च द्वावन्तौ-आरम्भक्षणः समाप्तिक्षणश्च, तथा चान्यैरप्युच्यते-"उभयान्तापरिच्छिना वस्तुसत्ता नित्यते" ति, तत्रेहारम्भक्षणा(०णलक्षणाऽ)न्तः परिगृह्यते, तथा चात्यन्तः-अनादिः, कालो यस्य सोऽयमत्यन्तकालस्तस्य, सह मूलेनकषायाविरतिरूपेण वर्तत इति समूलकः (क:) प्राग्वत्तस्य, उक्तं हि-"मूलं संसारस्स उ हुति कसाया अविरती य" 'सर्वस्य' निरवशेस्य, दुःखयतीति दुःखं-संसारस्तस्य, असातं चेह दुःखं गृह्यते, अत्र च पक्षे मूलं रागद्वेषौ, यः प्रकर्षेण मोक्षयति-मोचयतीति प्रमोक्षआत्मनो दुःखापगमहेतुः, पूर्वत्र तुशब्दस्यावधारणार्थस्येह सम्बन्धात्प्रमोक्ष एव, तं 'भाषमाणस्य' प्रतिपादयतः, यदिवा प्रमोक्ष:-अपगमस्तं भाषमाणस्येति; कोऽर्थः ?-यथाऽसौ भवति तथा ब्रूवाणस्य 'मे' मम प्रतिपूर्ण-विषयान्तरागमनेनाखण्डितं चित्तं चिन्ता वा येषां ते प्रतिपूर्णचित्ताः प्रतिपूर्णचिन्ता वा 'शृणुत' आकर्णयत, एकाग्रस्य-एकालम्बनस्यार्थाच्चेतसो भाव एकाग्र्यं-ध्यानं तच्च प्रक्रमाद्धादि तस्मै हितमेकाय्यहितं, पाठान्तरत-एकान्तहितं वा हितः-तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाहमू.(१२४८) नाणस्स सव्वस्स पगासणाए, अन्नाणमोहस्स विवज्जणाए।
रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ।। वृ.'ज्ञानस्य' आभिनिबोधिकादेः 'सर्वस्य' निरवशेषस्य पाठान्तरतः 'सत्यस्य वा' अवितथस्य 'प्रकाशनया' इति प्रभासनया निर्मलीकरणेनेत्यर्थः, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहो-दर्शनमोहनीयमनयोः समाहारेऽज्ञानमोहं तस्व विवर्जनापरिहारो मिथ्याश्रुतश्रवणकुदृष्टिसङ्गपरित्यागादिना तया, अनेन स एव सम्यग्दर्शनात्मकोऽभिहितः, तथा 'रागस्य द्वेषस्य च' उक्तरूपस्य संक्षयेण' विनाशेन, एतेन तस्यैव चारित्रात्मकस्याभिधानं, रागद्वेषयोरेव कपायरूपत्वेन तदुपघातकत्वाभिधानात, ततश्चायमर्थ:-सम्यग्दर्शनज्ञानचारित्रैः 'एकान्तसौख्यं' दुःखलेशाकलङ्कितसुखं समुपैति ‘मोक्षम्' अपवर्गम्, अयं च दुःखप्रमोक्षाविनाभावित्यतः स एवोपलक्षित इति सूत्रार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org