________________
१९८
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२४६ यथाख्यातसंयमस्तु प्रकर्षापकर्षरहीत एकरूप एवेत्येकमेव तत्स्थानम्, एवं च सामायिकादीनामसङ्ख्येयभेदत्वात्समुदायात्मकस्य संयमस्थानस्याप्यसङ्ख्येयभेदता, केवलमिह बृहत्तरमसङ्ख्येयं गृह्यते, असङ्ख्यातानामसङ्ख्यातभेदत्वात्, 'प्रग्रहस्थान' तुप्रकर्षण गृह्यतेऽस्य वचनमिति प्रग्रहः-उपादेयवाक्योऽधिपतित्वेन स्थापितः, स च लौकिको लोकोत्तरतश्च तस्य स्थानं, तच्च लौकिकं पञ्चधा-राजयुवराजमहत्तरामात्यकुमारभेदात्, लोकोत्तरमपि पञ्चधैव-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदात, 'योधस्थानम्' आलीढादि'अचलस्थानं' निश्चलस्थितिरूपं, तत्र सादिसपर्यवसितादि परमाण्वादीनां, गणनास्थानम्-एककादि सन्धानस्थानं द्रव्यतः कञ्चुकादिगतं भावस्थानम्-औदयिकादिको भावस्तिष्ठन्त्यत्र जन्तव इतिकृत्वेति गाथात्रयार्थः ।। सम्प्रति येनात्र प्रकृतं तदुपदर्शयन्नुपदेशसर्वस्वमाहनि. [५२६] भावप्पमाय पगयं संखाजुत्ते अ भावठाणंमि।
चइऊणं च (ण इइ) पमायं जइयव्वं अप्पमायंमि।। वृ. भावप्रमादेन उक्तरूपेण प्रकृतम्-अधिकारः, तथा 'संख'त्ति सङ्घयास्थानं तद्युक्तेन, चस्य भित्रक्रमत्वाद्भावस्थानेन च, कोऽथः?-सङ्ख्यास्थानेन च, सर्वत्र सुब्ब्यत्ययने सप्तमी, अत्र हि गुरुवृद्धसेवाद्यभिधानतः प्रकामभोजनादिनिषेधतश्च भावप्रमादा निद्रादयोऽर्थात्परिहर्त्तव्यत्वेनोच्यन्ते, ते चैकादिसङ्घयायोगिन औदयिकभावस्वरूपाश्चेति भावः, 'त्यक्त्वा' विहाय 'इती'त्येवंप्रकारं प्रमाद, किमित्याह-'यतितव्यं' यलो विधेयः क्व ?-'अप्रमादे' प्रमाद- . प्रतियोगिनि धर्मं प्रत्युद्यम इति गाथार्थः ॥ अस्यैवार्थस्य दृढीकरणार्थमुत्तमनिदर्शनमाहनि. [५२७] वाससहस्सं उग्गं तवमाइगरस्स आयरंतस्स।
जो किर पमायकालो अहोरत्तं तु संकलिअं। नि. [५२८] बारसवासे अहिए तवं चरंतस्स वद्धमाणस्स।
जो किर पमायकालो अंतमुहुत्तं तु संकलिअं। वृ. वर्षसहस्र'मिति कालात्यन्तसंयोगे द्वितीया, ततश्च वर्षसहस्रप्रमाणं कालं यावत् 'उग्रम्'. उत्कटं तपः' अनशनादि आदिकरस्य' ऋषभनाम्नो भगवत आचरतो यः किलेंति परोक्षाप्तवादसूचकः 'प्रमादकालः' यत्र प्रमादोऽभूत् यत्तदोरभिसम्बन्धातोऽहोरात्रं 'तुः' अवधारणे ततोऽहोरात्रमेव, किमयमेकावस्थाभाविनः प्रमादस्य काल उतान्यथेत्याशङ्कयाह-सङ्कलितः, किमुक्तं भवति?-अप्रमादगुणस्थानस्यान्तर्मोहूर्तिकत्वेनानेकशोऽपि प्रमादप्राप्तौ तदवस्थितिविषयभूतस्यान्तर्मुहूर्तस्याङ्खयेयभेदत्वात्तेषामतिसूक्ष्मतया सर्वकालसङ्कलनायामप्यहोरात्रमेवाभूत।
तथा द्वादश वर्षाण्यधिकानि तपश्चरतो वर्द्धमानस्य यः किल प्रमादकाल: प्राग्वत्सोऽन्तमुहूर्तस्य च बृहत्तरत्वमिति भावनीयम्, अन्ये त्वेतदनुपपत्तिभीत्या निद्राप्रमाद एवायं विवक्षित इति व्याचक्षत इति गाथाद्वयार्थः ।। इत्थमुत्तमनिदर्शनाभ्यामप्रमादानुष्ठाने दाढर्यमापाद्य विपर्यये दोषदर्शनद्वारेण पुनस्तदेवापादयितुमिदमाहनि. [५२९] जेसिं तुपमाएणं गच्छइ कालो निरत्थओ धम्मे। .
ते संसारमनंतं हिंडंति पमायदोसेणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org