________________
अध्ययनं-३१,[ नि.५२२]
१९७ पुरतः शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु यो भिक्षुर्यतते यथायोगं सम्यक्श्रद्धानासेवनावर्जनादिनेत्येकोनविंशतिसूत्रार्थः । अध्ययनार्थं निगमयितुमाहमू. (१२४६) इइ एएसु जे भिक्खू, ठाणेसु जयई सया।
खिप्पं से सव्वसंसारा, विप्पमुच्चइ पंडिए । तिबेमि। वृ. 'इती' त्यनेन प्रकारेण 'एतेषु' अनन्तरोक्तरूपेसु 'स्थानेषु' असंयमादिषु यो भिक्षुः 'यतते' उक्तन्यायेन यत्नवान् भवति सदा क्षिप्रंस सर्वसंसाराद्विप्रमुच्यते पण्डित इति सूत्रार्थः॥ 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । अवसितश्चानुयोगे, नयाश्च प्राग्वत् ॥
अध्ययनं ३१ समाप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे __ एकत्रिंशत्तमध्ययनं सनियुक्तिः सटीकं समाप्तम्
अध्ययनं-३२-प्रमादस्थानं ) वृ.व्याख्यातं चरणविधिनामकमेकत्रिंशमध्ययनम्, इदानी द्वात्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने नैकधा चरणभिहितं, तच्च प्रमादस्थानपरिहारत एवासेवितुं शक्यं, तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चत्वार्यनुयोगद्वाराणि यावन्नामनिष्पन्ननिक्षेपस्तावत्पूर्ववदेवेति मनास्याधाय नामनिष्पन्ननिक्षेपाभिधानायाह नियुक्तिकृत्
नि. [५२३] निक्खेवो अपमाए चउव्वि०॥ नि. [५२४] जाणगसरीरभविए तव्वइरिते अमज्जमाईसु।
निद्दाविकहकसाया विसएसु भावओ पमाओ। नि. [ ५२५] नामं ठवणादविए खित्तद्धा उड्ड उवरई वसही।
संजमपग्गहजोहे अयलगणणसंधणा भावे ।। वृ. निक्खेवेत्यादिगाथास्तिस्त्रः सुगमा एव, नवरं 'मज्जमाईसु'त्ति मकारोऽलाक्षणिको मदयतीति मद्यं-काष्ठपिष्टनिष्पन्नमादिशब्दादासवादिपरिग्रहः एतानि, सुब्व्यत्ययाच्च प्रथमार्थे सप्तमी, भावप्रमादहेतुत्वाद्रव्यप्रमादः, 'निद्राविकथाकषायाः' उक्तरूपाः 'विसएस'त्ति प्राग्वद्विषयाश्च भावतः' भावमाश्रित्य प्रमादः। तथा स्थाननिक्षेपे प्रस्तावात्स्थानशब्दो नामादिभिः प्रत्येकं योज्यते, तत्र च द्रव्यस्थानंनोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यत्सचित्तादिद्रव्याणामाश्रयः, क्षेत्रस्थानं-भरतादिक्षेत्रमूर्ध्वलोकादि वा यत्र क्षेत्रे स्थानं विचार्यते, अद्धाकाल: सैव तिष्ठत्यस्मिन्निति स्थानमद्धास्थानं तच्च पृथिव्यादीनां भवस्थित्यादि समयावलिकादि वा, ऊध्वस्थानं-कायोत्सर्गादि उपरति:-विरतिस्तत्स्थानं यत्रासौ गृह्यते, वसतिः-उपाश्रयस्तस्थानं ग्रामारामादि संयमःसामायिकदिस्तस्य स्थानं-प्रकर्षापकर्षवदध्यवसायरूपं, यत्र संयमस्यावस्थानं, तच्चासंङ्खयेयभेदभिन्नं, तथाहि
समायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकानां प्रत्येकमसङ्ख्येयलोकाशप्रदेशपरिमाणानि संयमस्थानानि, सूक्ष्मसम्परायसंयमस्त्वान्तमौहूतिक इत्यन्तमुहूर्तसमयपरिमाणानि तत्स्थानानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org