________________
अध्ययनं - नं-१, [ नि. ६४ ]
५५
'तद्' इत्यनुशासनं भवति 'मृढ़ानाम्' अज्ञानानां क्षान्तिः क्षमा शुद्धिः- आशयविशुद्धता तत्करणं, यद्वा- क्षान्तेः शुद्धिः-निर्मलता श्रान्तिशुद्धिस्तत्करम्, अमूढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वीपलक्षणं चैतद्, अत एव पद्यते गम्यते गुणैर्ज्ञानादिभिरिति पदं - ज्ञानादिगुणस्थानमित्यर्थः, अथवा परुषमपीत्यपिशब्दो भिन्नक्रम:, ततश्च हितमप्यायत्यां विगतभयाद् 'बुद्धाद्' आचार्यादेः, उत्पन्नमिति शेषः, परुपं यच्छ्रुत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति मूढानां शेषं प्राग्वदिति सूत्रार्थ: ।। पुनविनयमेवाहआसने उवचिद्विज्जा, अनुच्चेऽकुक्कुए थिरे । अयुत्थाई निरुत्थाई, निसीज्जा अप्पकुक्कुई ।
}
मू. ( ३० )
वृ. 'आसनं' पीटादि वर्षां ऋतुवद्धं तु पादपुञ्छनं तत्र पीठादौ 'उपतिष्ठेत्' उपविशेत्, 'अनुच्चे' द्रव्यतो नीचे भावतस्त्वल्पमूल्यादी, गुर्वासनात् इति गम्यते, 'अकुक्कुचे' अस्पन्दमाने, न तु तिनिशफलकवत् किञ्चिच्चलति, तस्य शृङ्गाराङ्गत्वात्, 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात्, ईदृश्यप्यासने अल्पमुत्थातुं शीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशील:, 'निरुत्थायी' न निमित्तं विनोत्थानशील:, उभयत्रान्यथाऽनवस्थितत्वसम्भवात्, एवंविधश्च किमित्याह- 'निपीदेत्' आसीत, 'अप्पकुक्कुइ 'ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन्, यद्वा- अल्पशब्दोऽभावाभिधायी, ततश्चाल्पम्-असत्, कुक्कुयं'ति कौत्कुचं-करचरणभूभ्रमणाद्यसच्चेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिक विनयः प्रकारान्तरेणोक्तं इति सूत्रार्थः ॥ सम्प्रति चरणकरणविनयात्मिकामेपणासमितिमाहमू. ( ३१ )
-
-
कालेन निक्खमे भिक्खू, कालेन य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥
वृ. ' कालेन 'त्ति सप्तम्यर्थे तृतीया, काले प्रस्ताव 'निष्क्रामेत्' गच्छंत् भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोपसम्भवात्, तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिर्वत्तेत, भिक्षाटनादिति शेपः, इदमुक्तं भवति अलाभेऽपि 'अलाभोत्ति न सोइज्जा, तवोत्ति अहियासए' इति समयमनुस्मरन्, अल्पं मया लब्धं न लब्धं वेति लाभार्थी नाटत्रेव तिष्ठेत् किमित्येवमत आह'अकालं' तत्तत्क्रियाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्तावे प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालमि 'ति तत्तत्कालोचितं क्रियाकाण्डं' समाचरेत्' कुर्यात्, अन्यथा कृषीबलकृपीक्रियाया इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादौ हेतुरुक्त:, प्रसङ्गात् शेपक्रियाविपयतया वा नेयं, समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थ: ।। निर्गतश्च यत्कुर्यात्तदाहमू. ( ३२ ) परिवाडिए न चिट्टिज्जा, भिक्खू दत्तेसनं चरे । पडिरूवेण एसित्ता, मियं कालेण भक्खए।
-
वृ. 'परिपाटी' गृहपंक्तिः, तस्यां 'न तिष्ठेत्' न पंक्तिस्थगृहभिक्षोपादानायैकत्रावस्थितो भवति, तत्र दायकदांपाऽनवगमप्रसङ्गात्, यद्वा-पंक्तयां भोक्तुमुपविष्टपुरुपादिसम्बन्धिन्यां न तिष्ठेत्, अप्रीत्यदृष्टकल्याणतादिदोपसम्भवात् किञ्च ? 'भिक्षुः ' यतिः, दत्तं दानं तस्मिन् गृहिणा दीयमाने 'एषणां' तद्गतदोपान्वेषणात्मिकां 'चरेत्' आसेवेत, 'चरति: आसेवायामपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org