________________
उत्तराध्ययन-मूलसूत्रम्-१-१/२६ उपलक्षणत्यादस्यान्यप्वपि नीचास्पदेषु अगारेषु' गृहेषु गृहसन्धिषु च' गृहद्वयान्तरालेषु च 'महापथेषु' राजमार्गादों, किमित्याह-'एकः' असहाय: एका-असहाया सा चासों स्त्री च एकस्त्री तथा 'सार्द्ध' सह नैव तिष्ठेत्' असंलपन्नेव चोर्वस्थानस्थो न भवेत्, 'न संलपेत्' न तयैव सह संभाषं कुर्यात, अत्यन्तदुष्टतोद्भावनपरंचैकग्रहणम्, अन्यथा ससहायास्यापि ससहा-- यया अपि च स्त्रिया सहावस्थानं सम्भापणं चैवंविधास्तदेषु दोषायैव, प्रवचनमालिन्यादिदोषसम्भवात्, अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरिभूतत्वात् ज्ञानादिजीवस्वतत्त्वघातिनः तासामेव दृष्ट्वा दृष्टिसम्बन्धाः, तत्रेह भावसमरेरधिकारः, सप्तमी चेयं, ततोऽयं भावार्थ:-द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषतस्त्वेकाकितायां, तत एवमेतेप्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिपु तिष्ठेत् संलपेद्वा, अनेनापि चारित्रविनय एवोक्तः, उपदेशाधिकाराच्च न पौनरुक्त्यम्, एवमन्यत्रापि भावनीयमिति सूत्रार्थः । कदाचित् स्खलिते च गुरुभिः, शिक्षितो यत्कुर्यात् तदेवाहमू.(२७) जं मे बुद्धानुसासंति, सीएण फरुसेण वा।
मम लाभुत्ति पेहाए, पयओ य(त) पडिस्सणो।। वृ. यन्मां बुद्धा 'अनुशासन्ति' शिक्षा ग्राहयन्ति शीतेन' सोपचारावचसा, 'शीलेन वे'ति पाठः, तत्र शीलं-महाव्रतादि उपचारात्तजनकं वचोऽपिशीलं तेन, यद्वा 'शील समाधौ' ततः शीलेन-समाधानकारिणा-भद्र ! भवादृशामिदमनुचितमित्यादिना, 'परुषेण' कर्कशेन, उभयत्र वचसेति गम्यते, तत् 'प्रतिशृणुयात्' विधेयतया अङ्गोकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह-मम 'लाभः' अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शासन्तीति 'पेहाएत्ति' एकारस्यालाक्षणिकत्वात्प्रेक्ष्य-आलोच्य प्रेक्षया वा एवंविधबुद्धया पयतो'त्ति प्रयतः-प्रयलवान्, पदतो वा-तथाविधानुस्मर्यमाणसूत्रालापकादिति सूत्रार्थः ।। किमिह परत्र चात्यन्तोपकारि गुरुवचनमपि कस्यचिदन्यथा सम्भवति?, येनैवमुपदिश्यते इत्याहमू. ( २८) अनुसासणमोवायं, दुक्कडस्स य पेरणं। ।
हियं तं मन्त्रए पन्नो, वेस्सं भवइ असाहुणो। वृ. 'अनुशासनम्' उक्तरूपम् ‘ओवाय'ति उपाये-मृदुपरुपभाषणादौ भवमौपायं, यद्वा 'ओवायंति' सूत्रत्वात् उपपतनमुपपात:-समीपभवनं तत्र भवमोपपातं-गुरुसंस्तारास्तरणविश्रामणादिकृत्यं 'दुष्कृतस्य च' कुत्सिताचरितस्य प्रेरणं-हा! किमिदमित्थमाचरितमित्याद्यात्मकं, गुरुविहितमिति गम्यते, 'हितम्' इहपरलोकोपकारि, 'तदि'त्यनुशासनादि मन्यते 'प्राज्ञः' प्रज्ञावान् 'द्वेष्यं' द्वेपोत्पादकं भवति' जायते, कस्य?, 'असाधोः' अपगतभावसाधुत्वस्य, तदनेनासाधोर्गुरुवचनस्याप्यन्यथात्वसम्भव उक्त इति सूत्रार्थः ।। अमुमेवार्थं व्यक्तीकर्तुमाह-- मू.(२९) हियं विगयभया बुद्धा, फरुसमप्पनुसासनं।
वेस्संतं होइ मूढाणं, खंतिसुद्धिकरं पयं। वृ. 'हितं' पथ्यं विगतभया:' सप्तभयरहिताः 'बुद्धाः' अवगततत्त्वाः, मन्यन्त इति शेपः, 'परुषमपि' कर्कशमपि, अनुशासनं शिष्याणां गुरुविहितमिति प्रक्रमः, 'द्वेष्यं' द्वेषोत्पादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org