________________
अध्ययनं - ९, [ नि. ६४ ]
"सुत्तं अत्थ च तहा हियकर निस्सेसयं च वाएइ । एसो चउव्विहो खलु सुयविनओ होइ नायव्वो । सुत्तं गार्हति उज्जुती अत्थं च सुणावर पयत्तेणं । जं जस्स होइ जोगं परिणामगमाइ तं तु सुयं ॥ निस्सेसमपरिसेसं जाव समत्तं च ताव वाएइ । एसो सुर्यविनओ खलु निद्दिट्टो पुव्वसूरीहिं ।। " इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानं यच्च विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय ' अब्भुद्वाणं अंजलि' तथा 'दंसणनाणचरिते' इत्यादिना ग्रन्थेनेव न तस्य शुद्धस्वरूपाभिधानं, किन्तु 'निसंते सिया अमुहरी' इत्यादि लिङन्तादिपदैरुपदेशरूपतया तदपि प्रसङ्गत एव यथायोगमाचार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थः ॥ पुनः शिष्यस्य वाग्विनयमाहपू. ( २४ ) मुसं परिहरे भिक्खू न य ओहारिणीं वए। भासादोसं परिहरे, मायं च वज्जए सया ॥
वृ. 'मृपा' इत्यसत्यं भूतनिह्नवादि 'परिहरेत्' सर्वप्रकारमपि त्यजेत्, भिक्षुः, 'न च' नैव 'अवधारणीं' गम्यमानत्वाद् वाचं गमिष्याम एव वक्ष्याम एव इत्येवमाद्यवधारणात्मिकां 'वदेत्' भाषेत्, किंबहुना ?, 'भाषादोपम्' अशेषमपि वाग्दूषणं सावद्यानुमोदनादिकं परिहरेत्, न च कारणोच्छेदं विना कार्योच्छेद इत्याह- 'मायां चशब्दात् क्रोधादश्च तद्धेतून् वर्जयेत् 'सदा' सर्वकालमिति सूत्रार्थः ॥ किञ्चमू. (२५)
न लविज्ज पुट्ठो सावज्जं, न निरदुं न मम्मयं ।
अप्पणट्टा परट्ठा वा, उभयस्संतरेण वा ॥
वृ. 'न लपेत्' न वदेत् ‘पृष्ट' इति पर्यनुयुक्तः 'सावद्यं' सपापं न 'निरर्थम्' अर्थविरहितं दशदाडिमादि एष वन्ध्यासुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोचारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं, वचनमिति सर्वत्र शेष:, अतिसंक्लेशोत्पादकत्वात् तस्याः, "तहेब काणं काणत्ति, पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति, तेनं चोरोत्ति नो वए ॥१॥ एएणऽत्रेण अट्ठेनं, परो जेनुवहम्मई ।
आयारभावदोसन्नू न तं भासेज्ज पन्नवं ॥२॥”
'आत्मार्थम् ' आत्मप्रयोजनं 'परार्थं वा' परप्रयोजनम् 'उभयस्स'त्ति आत्मनः परस्य च, प्रयोजनमिति गम्यते, ‘अंतरेण व'त्ति विना वा प्रयोजनमित्युपस्कारः, भाषादोषं परिहरेदित्यनेनैव गते पृष्टविषयत्वादस्यापौनरुक्त्वं, यद्वा भाषादोषो जकारमकारदिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वाग्गप्त्यभिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ॥ इत्थं स्वगतदोषपरिहार- मभिधायोपाधिकृतदोषपरिहारमाह
मू. ( २६ )
1
५३
समरेसु अगारेसुं, गिहसंधिसु अ महापहेसु । एगो एगित्थीए सद्धि, नेव चिट्टे न संलवे ॥
वृ. 'समरेषु' स्वरकुटीषु, तथा च चूर्णिकृत् - 'समरं नाम जत्थ हेट्ठा लोयारा कम्मं करेंति'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org