________________
अध्ययनं ३०, [ नि. ५१७ ]
भवकोडीसंचियं कम्मं तवसा निज्जरिज्जई ||
वृ. 'एतेषां' तु प्राणिवधविरत्यादीनामनाश्रवहंतूनां 'विवज्जासे' त्ति विपर्यासे प्राणि-वधादावसमितत्वादौ च रागद्वेपाभ्यां समर्जितम् उपार्जितं रागद्वेपसमर्जितं कर्मेति गम्यते तद्यथा क्षपयति तन्मे कथयत इति शेषः, एकम् एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन मनो यस्यासावे - कमनाः शृष्विति शिष्याभिमुखीकरणम् ।
'संनिरुद्धे' पाल्यादिना निषिद्धे 'जलागमे' जलप्रवेशे 'उरिसचणाए' ति सूत्रत्वाद् 'उत्सेचनेन' अरघट्टघटीनिवहादिभिरुदञ्चनेन 'तवणाए 'त्ति प्राग्वत् 'तपनेन' रविकरनिकरसन्तातपरूपेण 'क्रमेण परिपाट्य 'शोषणा' 'जलाभावरूपा भवेत् ।
'पापकर्मनिराश्रवे' पापकर्मणामाश्रवाभावे 'भवकोटीसञ्चितम्' इत्यत्र कोटीग्रहणमतिबहुत्वोपलक्षणं कोटोनियमासम्भवात् कर्म तपसा 'निर्जीर्यत' आधिक्येन क्षयं नीयते, शेर्पा स्पष्टमिति सूत्रत्रयार्थः ॥ तपसा कर्म निर्जीर्येत इत्युक्तं, तत्र किं तत्तपः ? इति संशये भेदाभिधानं विनाऽशक्यत्वात्तत्स्वरूपाभिधानस्य तद्भेदानाह-
मू. (११९५ ) सो तवो दुविहां वृत्तो, बाहिर ब्यंतरी तहा । बाहिरो छव्विहो वृत्तो, एवमभितरी तवो ॥
वृ. 'तद्' अनन्तप्रकान्तं तपो द्विविधमुक्तं ' बाहिरऽब्भंतरो' त्ति 'बाह्यं' बाह्यद्रव्यापेक्षत्वात् प्रायो मुक्त्यवासिवहिरङ्गत्वाच्च 'अभ्यतरं' तद्विपरीतं यदिवा लोकप्रतीतत्वाकुतीर्थिकैश्च स्वाभिप्रायेणासेव्यमानत्वाद्वाह्यं तदितरत्त्वाभ्यन्तरम्, उक्तञ्च
"लोके परसमयेषु च यत्प्रथितं तत्तपो भवति बाह्यम् । आभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राह्यम् ॥”
अन्ये त्वाहुः
"प्रायेणान्तः : करणव्यापाररूपमेवाभ्यन्तरं, बाह्यं त्वन्यथे” ति, तथेति समुच्चये, बाह्यं 'पड्विधं' पड्भेदमुक्तमेवमिति पड्विधमभ्यन्तरं तप उक्तमिति सम्बन्धः, सर्वत्र सूत्रत्वाल्लिङ्गव्यत्यय इति सूत्रार्थः । तत्र यथा बाह्यं षड्विधं तथाऽह
मू. ( ११९६ ) अनसनमूणो अरिया भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीयणा य बज्झो तवो होइ ॥
वृ. अक्षरार्थः स्पष्ट एव ॥ भावार्थं तु प्रतिभेदं सूत्रकार एवाभिधित्सुस्तावदनशनमाहमू. ( ११९७ ) इत्तरियमरणकाला य, अनसना दुविहा भवे । इत्तरिया सावकखा, निरवकंखा उ बिइज्जिया ॥
-
29/12
"
वृ. 'इत्तरिय' त्ति इत्वरमेवेत्वरकं स्वल्पकालं नियतकालावधिकमिति योऽर्थः, मरणावसानः कालो यस्य तन्मरणकालं प्राग्वन्मध्यपदलोपी समासः, यावज्जीवमित्यर्थः, तथा मरणं काल: अवसरो यस्य तन्मरणकालं 'च: ' समुच्चये, अश्यते - भुज्यत इत्यशनमशेपाहाराभिधानमेतत्, उक्तं हि
१७७
" सव्वोऽवि य आहारो असणं सव्वोऽवि वुच्चए पानं । सव्वोऽवि खाइमंपि य सव्वोऽविय साइमं होइ । "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org