________________
१७८
उत्तराध्ययन-मूलसूत्रम्-२.-३०/११९७ ततश्चाविद्यमानं दशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं "द्विविधं द्विप्रकारं भवत्, तत्र 'इत्तरिय 'त्ति इत्वरकं सहावकाङ्कया--घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तत इति सावकाझं निष्क्रान्तमाकाङ्क्षातो निराकाझं, तज्जन्मनि भोजनाशंसाभावात्, तुशब्दस्य भित्रक्रमत्वाद् द्वितीयं पुनर्मरणकालं, पाठान्तरतश्च निरवकावं द्वितीयम्। 'यथाद्देशं निर्देश'इति न्यायत इत्वरकानशनस्य भेदानाहमू. (११९८) जो सो इत्तरियतवो, सो समासेण छव्चिहो ।
सेदितवो पयरतवो. घनो अ तह होइ वग्गो य॥ वृ. यत्तदित्वरकं तपः-इत्वरकानशनरूपमनन्तरमुक्तं तत् 'समासेन' सङ्केपेण विधं, विस्तरेण तु बहुतरभेदमिति भावः ।। पड्विधत्वमेवाह- सेढितवो' इत्यादि, अत्र च श्रेणिःपंक्तिस्तदुपलक्षितं तपः श्रेणितपः तच्चतुर्थादिक्रमेण क्रियमाणमिह पण्मासान्तं परिगृह्यते, तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, इह चाव्यामोहार्थं चतुर्थपपाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिविवक्ष्यते, सा च चतुभिर्गुणिता पोडशपदात्मकः प्रतरो भवति, अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते
"एकाद्याद्या व्यवस्थाप्याः, पंक्तयोऽत्र यथाक्रमम्।
एकादींश्च निवेश्यान्ते, क्रमात्पंक्ति प्रपूरयेत् ॥" अस्यार्थः-एक आदिउँपां ते एकादयः - एककद्विकत्रिकचतुष्कास्ते आद्या यासु ता एकाद्याद्याः 'व्यवस्थाप्या:' न्यसनीयाः "पंवतयः' श्रेणयः 'यथाक्रम' क्रमानतिक्रमेण, कोऽर्थः? -- प्रथमा एकाद्या एककादारभ्य, द्वितीया द्विकाद्या द्विकादारभ्य, तृतीया त्रिकाद्या त्रिकादारभ्य,
चतुर्थी-चतुष्काद्या चतुष्कादारभ्य, आह-एवं सति प्रथमपंक्तिरेव परिपूर्णा भवति द्वितीयाद्यास्त 'न पूर्यन्त एव, तत्कथं पूरणीयाः?, उच्यते, एकादींश्च निवेश्य व्यवस्थाप्याः 'अन्ते' इत्यने 'क्रमात्' इति क्रममाश्रित्य 'पंक्तिम्' अपूर्यमाणा श्रेणि 'पूरयेत्' परिपूर्णां कुर्यात्, तत्र च द्वितीयपंक्तौ द्विकत्रिकचतुष्कानामग्रे एककः, तृतीयपंक्तौ त्रिकचतुष्कयोः पर्यन्ते एकको द्विकः, चतुर्थपंक्तौ चतुष्कावसान एककद्विकत्रिका: स्थाप्यन्ते, चतुर्थषष्ठाष्टमदशमप्रक्रमः, 'धन' इति धनतपः 'च: पूरणे तथेति समुच्चये भवतीति च क्रिया प्रतितपोभेदं योजनीया, अत्रच पोडशपदात्मक: प्रतर: पदचतुष्टयात्मिकया श्रेण्या गुणितो धनो भवति, आगतं चतुःषष्टिः ६४, स्थापना तु पूविकैव नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो धनतप उच्यते, 'च;' समुच्चये, 'तथा भवति वर्गश्च'तीहापि प्रक्रमाद्वर्ग इति वर्गतपः, तत्र च धन एव धनेन गुणितो वर्गो भवति, ततश्चतुःपष्टिश्चतुःपष्टयैव गुणिता जातानि षन्नवत्यधिकानि चत्वारि सहस्राणि, एवदुपलक्षितं तपो वर्गतपः । मू. (११९९) तत्तो य वागग्गो उ पंचमो छट्टओ पइन्नतवो।
मनइच्छियचित्तत्थो नायव्यो होइ इत्तरिओ।। वृ.'ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग' इत् वर्गवर्गतपः 'तुः' समुच्चये 'पञ्चमं पञ्चसङ्ख्यापूरणम्, अत्र च वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवगी भवति, तथा च चत्वारि सहस्राणि पन्नवत्यधिकानि तावतैय गुणितानि जातैका कोटि: सप्तष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org