________________
१७६
उत्तराध्ययन-मूलसूत्रम्-२-३०/११८८ पगयं तु भावमग्गे सिद्धिगईए उ नायव्वं ।। नि. [५१७] दुविहतवोमग्गगई वत्रिज्जइ जम्ह इत्थ अज्झयणे।
तम्हा एअज्झयणं तवमग्गगइत्ति नायव्वं ।। व. गाथाचतुष्टयं प्राग्वत, नवरं 'पंचतवमाइ'त्ति पञ्चतपः-पञ्चाग्नितपः, यत्र चतसृष्वपि दिक्षु चत्वारोऽग्रयः पञ्चमश्च तपनतस्तल्लोके प्रसिद्धम्, आदिशब्दाल्लोकप्रतीतमन्यदपि बृहतपःप्रभृति तपो गृह्यते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन तथाविधशुद्धनङ्गत्वात्, तथा भावे प्रक्रमातपो बाह्यमभ्यन्तरं चात्रैव वक्ष्यमाणस्वरूपं ।। तथा पुव्वु द्दिट्टो'त्ति पूर्ववमोक्षमार्गगतिनामकेऽध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः 'भावमग्गो'त्ति सुब्ब्यत्ययाद्, 'भावमार्गेण' मुक्तिपथेन तपोरूपेण ज्ञानदर्शनचारित्राविनाभावित्यवाद् भावतपसः ।। ___ नामनिरुक्तिमाह-द्विविधं तपो-बाह्यमभ्यन्तरं च तदेव मार्गो भावमार्गस्तत्फलभूता च गति:-सिद्धिगतिर्द्विविधतपोमार्गगतिर्भण्यते यस्मादत्र-अध्ययने तस्मादेतदध्ययनं तपोमार्गगतिरिति ज्ञातव्यम्, अभिधेयेऽभिधानोपचारादिति भावः, इति नियुक्तिगाथाचतुष्टयार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रनिक्षेपावसरः, तस्य च सूत्रानुगमाविनाभावित्वात् सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(११८९) जहा उपावगं कम्म, रागद्दोससमज्जियं।
खवेइ तवसा भिक्ख, तमेगग्गमणो सने।। वृ. 'यथा' येन प्रकारेण 'तुः' अवधारणे भिन्नक्रमो योक्ष्यते, 'पापकं कर्म' ज्ञानावरणादि रागद्वेषाभ्यां समिति-भृशमर्जितम्-उपात्तं रागद्वेषसमजितं क्षपयत्येव तपसा' वक्ष्यमाणलक्षणेन भिक्षुः 'तदेकाग्रमनाः' अवहितचितः शृण्विति शिष्यमभिमुखीकरोति, मा भूदनभिमुखोपदेशनेनैतद्वैफल्यमिति सूत्रार्थः । इह चानाश्रवेणैव सर्वथा कर्म क्षप्यत इति यथाऽसौ भवति मू.(११९०) पाणिवहमुसावाया अदत्तमेहुणपरिग्गहा विरओ।
राईभोयणविरओ, जीवो भवइ अनासवो। म.(११९१) पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ।
अगारवो अनिस्सलो, जीवो भवइ अनासवो। वृ. सूत्रद्वयं प्रायः प्रतीतार्थमेव, नवरं विरत इति प्राणवधादिभिः प्रत्येकमभिसम्बध्यते, तथा भवत्यनाश्रव इति-अविद्यमानकर्मोपादानहेतुः।
द्वितीयसूत्रेऽप्यनाश्रवः-समित्यादिविपर्ययाणां कर्मोपादानहेतुत्वेनाश्रवरूपत्वात्तेषां चाविद्यमानत्वादिति सूत्रद्वयार्थः ॥ एवंविद्धश्च यादृशं कर्म यथा च क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरणपूर्वकं दृष्टान्तद्वारेण तदाह-. मू. (११९२) एएसिं तु विवज्जासे, रागद्दोससमज्जियं।
खवेइ तं जहा भिक्खू, तं मे एगमना सुण। मू.(११९३) जहा महातलागस्स, संनिरुद्धे जलागमे।
उम्सिचणाए तवणाए, कमेणं सोसणा भवे॥ मू.(११९४) एवं तु संजयस्सावि, पावकम्मनिरासवे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org