SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२९,[ नि.५१३] १६५ सायतया संसाराल्पत्वापादनादिति भावः। म.(११५४ ) सम्भावपच्चक्खाणेणं भंते?, अनियहि जणयइ, अनियदि पडिवन्ने य अनगारे चत्तारि केवलिकमंसे खवेइ. तंजहावेणिज्ज आउयं नामंगोयं, तओ पच्छा सिज्झइ। वृ. साम्प्रतं सकलप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह-तत्र सद्भावेन-सर्वथा पुनःकरणासंभवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपा शैलेशीतियावत तेन, न विद्यते निवृत्तिः-मुक्तिप्राप्य निवर्तनं यस्मिस्तद् अनिवृत्ति शुक्लध्यानं चतुर्थभेदरूपं जनयति, पाठान्तरतश्च 'निवृत्ति द्विसमयस्थितिकस्यापि वैद्यकर्मणो बन्धव्यावृत्तिं जनयति, 'अनियट्टि पडिवन्ने यत्ति प्रतिपन्नानिवृत्तिः पाठान्तरतः प्रतिपन्नानिवृत्तिश्चानगारः 'चत्वारि' चतुःसङ्घयानि केवलिनः 'कम्मंस'त्ति कार्मग्रन्थिकपरिभाषयाउंशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि-भवोपग्राहीणि क्षपयति, शेषं स्पष्टम्। मू. (११५५) पडिरूवयाए णं भंते ?, लावियं जणेइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसंमत्ते सत्तसमिइसमत्ते सव्वपाणभूयजीवसत्तेसु वीससणिज्जरूवे अप्पडिलेहे जिइंदीए विपुलतवसमिइसमन्त्रागए आवि भवइ ।। वृ.एतच्च प्रत्याख्यानं प्रायः प्रतिरूपतायामेव भवतीति तामाह-'पडिरूवयाए'त्ति, प्रतिःसादृश्ये, ततः प्रतीति-स्थविरकल्पिकादसदृशं रूपं-वेषो यस्य स तथा तद्भावस्तत्ता तयाअधिकोपहरणपरिहाररूपया लाघवमस्यास्तीति लाघवी तद्भावो लाघविता तां द्रव्यतः स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति, लघुभूतश्च जीवः 'अप्रमत्तः' प्रमादहेतूनां परिहारत इतरेषां चाङ्गीकरणतः, तथा 'प्रकटलिङ्गः' स्थविरादिकल्परूपेण व्रतीति विज्ञायमानत्वात् 'प्रशस्तलिङ्गः' जीवरक्षणहेतुरजोहरणादिधारकत्वाद् "विशुद्धसम्यक्त्वः' तथाप्रतिपत्त्या सम्यक्त्वविशोधनात्, तथा सत्त्वं च-आपत्स्ववैकल्यकरमध्यवसानकरं च समितयश्चउक्तरूपाः समासा:-परिपूर्णा यस्य स समाप्तसत्त्वसमितिः, सूत्रे निष्ठान्तस्य प्राकृतत्वात्परिनिपातः, तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपः, तत्पीडापरिहरित्वात्, 'अपडिलेह'त्ति अल्पार्थे नञ्, ततोऽप्रत्युपेक्षित इत्यल्पोपकरणत्वादल्पप्रत्युपेक्षः, पठ्यते च-'अप्पपडिलेहि'त्ति जितानि-वशीकृतानि यतिरहमितिप्रत्यायत्कथञ्चित्परिणामान्यथात्वेऽपीन्द्रियाणि येन स तथा, विपुलेन-अनेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतो-युक्तो विपुलतप:समितिसमन्वागतश्चापि भवति, पूर्वत्र समितीनां परिपूर्णत्वाभिधानेन सामस्त्यमुक्तम्, इह तु तासां सार्वत्रिकत्वमिति न पौनरुक्त्यम्। मू.(११५६) वेयावच्चेणं भंते?, तित्थयरनामगुत्तं कम्मं निबंधइ ।। वृ.प्रतिरूपतायामपिवैयावृत्त्यादेव विशिष्टफलावाप्तिरित्येतदनन्तरंवैयावृत्त्यं, तत्र व्यावृतःकुलादिकार्येषु व्यापारवांस्तद्भावो वैयावृत्त्य तेन तीर्थकरनामगोत्रं कर्म निबन्धाति, उक्तं हि तद्धेतकीर्तनावसरे-- 'वेयावच्चे समाही य'त्ति । मू.(११५७) सव्वगुणसंपुन्नयाए णं भंते?, अपुनरावत्ति, जणेइ, अपुनरावत्तिं पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ॥ वृ. वैयावृत्त्यवांश्च सर्वगुणभाजनं भवतीति सर्वगुणसंपन्नतामाह-सर्वगुणा-ज्ञानादयस्तैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy