________________
१६६
उत्तराध्ययन-मूलसूत्रम्-२-२९/११५७ संपन्नो-युक्तस्तद्भावः सर्वगुणसंपाता तया अपुनरावृत्ति पुनरिहागमनाभावो मुक्तिरितियावत्तां जनयति, अपुनरावृत्ति प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां 'नो' नैव भागी' भाजनं भवति तन्निबन्धनयोर्दैहमनसोरभावात्, सिद्धिसुखभाजनेमव भवतीति भावः ।
मू.(११५८)वीयरागयाए णं भंते०?, नेहाणुबंधनाणि तण्हानुबंधनाणि य वुच्छिदइ मणुनामणेन्नेसु सदरूवसफरिसगंधेसु सच्चित्ताचित्तमीसएसु चेव विरज्जइ ।।
वृ. सर्वगुणसंपन्नता च रागद्वेषपरित्यागतो जायत इति वीतरागतामाह-'वीतरागतया' रागद्वेषापगमरूपया बन्धनानि-रागद्वेषपरिणामात्मकानि, तृष्णा-लोभस्तद्रुपाणी बन्धनानि तानि च व्यवच्छिनत्ति, पाठान्तरतश्च 'स्नेहानुबन्धानि तृष्णानुबन्धानि च तत्र स्नेहः-पुत्रादिविषयः तृष्णा-द्रव्यादिविषया तद्रू पाण्यनुबन्धनानि तु-अनुगतान्यनुकू लानि वा बन्धनानि, अतिदुरन्तत्वख्यापनार्थं च रागान्तगर्ततत्वेऽपि पृथक् तृष्णास्नेहयोरुपादानं, ततश्च मनोज्ञेषु शब्दरसरूपगन्धेषु (सचित्ताचित्तमिश्रेषु-स्त्र्यादिद्रव्येषु) चैव विरज्यते, तृष्णास्नेहयोरेव रागहेतुत्वात्, आहकषायप्रत्याख्यानफलेन वीतरागतोक्तैव तत्किमर्थमस्याः पृथगुपादानम् ?, उच्यते, रागस्यैव सकलानर्थमूलत्वख्यापनार्थं । .
मू.(११५९) खंतीए णं भंते?, परीसहे जिने ॥
वृ. रागद्वेषाभावे च तात्त्विकाः श्रमणगुणाः, तेषु च प्रथमव्रतपरिपालनोपायत्वात्क्षान्तिरेव प्रथमेति तामाह, तत्र क्षान्तिः-क्रोधजयस्तया परीषहान्' अर्थाद्वधादीन् 'जयति' परीषहाध्ययनोक्तन्यायतोऽभिभवति।
मू. (११६०) मुत्तीए णं भंते?, अकिंचणं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थनिज्जे भवइ ।
वृ.क्षान्तिस्थितेनापि न मुक्तिं विनाऽशेषव्रतपरिपालनं कर्तुं शक्यमिति तामाह-मुक्तिःनिर्लोभता तया किञ्चनाभावोऽकिञ्चनं, कोऽर्थ:?-निष्परिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थे लोला-लम्पट अर्थलोलाचौरादयस्तेषां न प्रार्थनीयः-प्रस्तावाद्बाधितुमनभिलषणीयो भवति ।
मू.(११६१ )अज्जवयाए णं भंते, काउज्जुययं भावुज्जययं भासुज्जुययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भवइ॥
७. लोभाविनाभाविनी च मायेति तदभावेश्वश्यंभाव्या वमतस्तदाह-'अज्जवयाए'त्ति सूत्रत्वाद् ऋजुः-अवक्रस्तद्भाव आर्जवं तेन-मायापरिहाररूपेण कायेन ऋजुरेव ऋजुक: कार्यजुकस्तद्भावस्तत्ताकुब्जादिवेषभ्रूविकाराधकरणत: प्राञ्जलता तां तथा भाव:-अभिप्रायस्तस्मिस्तेन वा ऋजुकता भावर्जुकता-यदन्यद्विचिन्तयन् लोकपंक्त्यादिनिमित्तम् अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा, एवं भाषायामृजुकता भाषर्जुकता-यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा-'अविसंवादनं' पराविप्रतारणं जनयति, तथाविधश्चाविवादनसंपन्नतयोपलक्षणत्वात्कायर्जुकतादिसंपन्नतया च जीवो धर्मस्याराधको भवति, विशुद्धाध्यवसायत्वेनान्यजन्मन्यपि तदवाप्तेः ।
मू.(११६२)मद्दवयाए णं भंते?, अनुस्सियतंजणेइ, अनुस्सियत्ते णं जीवे मिउमद्दवसंपन्ने अट्ठ मयबाणाई निद्ववेइ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org