________________
१६४
उत्तराध्ययन-मूलसूत्रम्-२-२९/११४९ वीयारायभावं पडिवन्नेऽविय णं जीवे समसुहदुक्खे भवइ ।।
व.एतच्च प्रत्याख्यानत्रयमपि कषायाभाव एव फलवदिति तत्प्रत्याख्यानमुच्यते-कषायप्रत्याख्यानेन-क्रोधादिविनिवारेन वीतो-विगतो रागो द्वेषविगमाविनाभावित्वातद्विगमस्य द्वे पश्चास्येति वीतरागस्तभावं जनयति, 'वीतरागभावपडिवो य'त्ति, अपिचेत्यस्य पनरर्थत्वात्प्रतिपन्नवीतरागभावः पुनर्जीवः समे-रागद्वेषाभावतस्तुल्ये सुखदुःखे यस्य स तथाविधो भवति, रागद्वेषाभ्यां हि तत्र वैषम्यसम्भवः, तदभावे तु समतैवावशिष्यते।
मू.(११५०) जोगपच्चक्खाणेणं भंते!, अजोगयं जणेइ, अजोगी णं जीवे नवं कम्मं न बन्धइ पुव्वबद्धं निज्जरेइ॥
वृ.निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तिसाधक इति तदुच्यते, तत्र योगा-मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन-तन्निरोधलक्षणेन 'अयोगत्वं' वक्ष्यमाणन्यायेनायोगिभावं जनयति, अयोगी जीवः ('नवं' प्रत्यग्रं 'कर्म' सातवेदनीयाद्यपि न बन्धाति तत्कारणयोगाभावत्,) 'पूर्वबद्धम्' इति भवोपग्रहादिकर्मचतुष्टयमन्यस्य तदाऽसंभवात् 'निर्जरयति' क्षपयति ।
मू. (११५१) सरीरपच्चक्खाणेणं भंते०, सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गभावमुवगए परमसुही भवइ॥
वृ.योगप्रत्याख्यानत: शरीरमपि प्रत्याख्यातमेव भवति, तथाऽपि तदाधारत्वान्मनोवाग्योगयोस्तत्प्राधान्यख्यापनार्थं तत्प्रत्याख्यानमेवाह, तत्र शरीरम्-औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणो गमकत्वाद्बहुव्रीहिस्तद्भावस्तत्त्वम्, उक्तं हि-"से न किन्हे न नीले न हालिद्दे" इत्यादि 'निर्वर्तयति' जनयति, सिद्धातिशयगुणसंपन्नश्च जीवो लोकाग्रभवत्वात् लोकाग्रं-मुक्तिपदम् 'उपगतः' प्राप्तः 'परमसुखी' अतिशयसुखवान् भवति ।
मू.(११५२) सहायपच्चक्खाणेणं भंते०, एगीभावंजणेइ, एगीभावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आविभवः ।।
वृ.सम्भोगादिप्रत्याख्यानानि च प्राय: सहायप्रत्याख्यान एव सुकराणि भवन्तीति तदुच्यतेसहायाः-साहय्यकारिणो यतयस्तत्प्रत्याख्यानेन-तथाविधयोग्यताभाविनाऽभिग्रहविशेषरूपेण 'एकभावम्' एकत्वं जनयति 'एकीभावभूतश्च' एकत्व प्राप्तश्च जीव: एकालम्बनत्वं भावयन्' अभ्यस्यन् 'अप्पझंझ'त्ति अल्पशब्दोऽभाववचनः, ततश्चाल्पझञ्झः-अविद्यमानवाकलहस्तथाऽल्पकपाय:-अविद्यमानक्रोधादिः 'अप्पतुमंतुमि त्ति अल्पम्-अविद्यमानं त्वं त्वमिति स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य सतथा, संयमबहुलः संवरबहुल इति प्राग्वद्, अत एव समाहीए यावि'त्ति 'समाहितः'ज्ञानादिसमाधिमांश्चापि भवति।
मू. (११५३) भत्तपच्चक्खाणेणं भंते०, अनेगाई भवसयाई निरंभइ ।। वृ. एवंविधश्चान्ते भक्तप्रत्याख्याता भवतीति तत्प्रत्याख्यानमाह-'भक्तप्रत्याख्यानेन' आहारपरित्यागरूपेण भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधदृढाध्यव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org