________________
१५८
उत्तराध्ययन-मूलसूत्रम्-२-२९/११२९ चारतयैव हेतुरिति भावनीयम् ।।
मू.(११३०) खमावणयाए णं भंते! जीवे किंजणेइ?, २ पल्हायणभावंजणेइ, पल्हायणभावमुवगए य सच्चपाणभूयजीवसत्तेसुमित्तीभावं उप्पाएइ, मित्तीभावमुवगए य जीवे भावविसोहि काऊण निभए भवइ ।।
वृ.प्रायश्चित्तकरणं च क्षमणावत एव भवत्यतस्तामाह-क्षमणा-दुष्कृतानन्तरं क्षमितव्यमिदं मयेत्यादिरूपा तया 'पल्हाएनंतभावं जणयइ'त्ति प्रह्लादेन-आत्मनो मनःप्रसत्त्यात्मकेनान्तर्भा(भा)वं-विनाशं प्रक्रमादनुशस्य तजनितचित्तसंक्लेशस्य च 'जनयति' उत्पादयति प्रह्लादेनान्तर्भावमुपगतश्च, पठन्ति च-'पल्हायणभावं जणयति, पल्हायणभावमुवगए यत्ति, इह च प्रह्लादनभाव:-चित्तप्रसत्तिरूपोऽभिप्रायः, सर्वे च ते प्राणाश्चेह द्वित्रिचतुरिन्द्रिया भूताश्चतरवो जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-शेपजन्तवः सर्वप्राणभूतजीवसत्त्वाः, उक्तं हि
"प्राणा द्वित्रिचतुष्प्रोक्ता, भूताश्च तरवः स्मृताः।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥" तेपु 'मित्रीभावं' परहितचिन्तालक्षणमुत्पादयति, ततो मैत्रीभावमुपगतश्चापि जीवः ‘भावविशुद्धि' रागद्वेपविगमरूपां कृत्वा 'निर्भयः' इहलोकादिभयविकलो भवति, अशेषभयहेत्वभावादिति भावः।
मू.(११३१) सज्झाएणं भंते ! जीवे किंजणेइ ?, २ नाणावरणिज्ज कम्मखवेई॥
वृ.एवंविधगुणावस्थितेन स्वाध्याये यतितव्यमिति तमाह-स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषं च कर्म क्षपयति, यत आह
"कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो।
अन्नयरम्मिवि जोए सज्झायंमि य विसेसेणं ।" मू. (११३२) वायणयाए णं भंते ! जीवे किं जणेइ ?, २ निज्जरं जणेइ सुअस्स य अनुसज्जणाए अणासायणाए वट्टइ, सुयस्स य अनुसज्जणाए अनासायणाए वट्टमाणे तित्थधम्म अवलंबइ, तित्थधम्ममवलंबमाणे महानिज्जराए महापज्जवसाने हवइ।।।
वृ. अत्र च प्रथमं वाचनैव विधेयेति तामाह-वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थस्तया 'निर्जरां' कर्मपरिशाटनं जनयति, तथा 'श्रुतस्य' आगमस्य चस्य भित्रक्रमत्वादनाशातनायां च वर्तते, तदकरणे ह्यवज्ञातः श्रुतमाशातितं भवेत्, न तु तत्करण इति, पठन्ति च-'अनुसज्जणाए वट्टइ' तत्रानुषङ्ग(अ)नमनुवर्तनं तत्र वर्तते, कोऽर्थः ? - अव्यवच्छेदं करोति, ततः श्रुतस्यानाशातनायामनुषञ्जने वा वर्तमानः तीर्थमिह गणधरस्तस्य धर्म:-आचारः श्रुतधर्मप्रदानलक्षणस्तीर्थधर्मः यदिवा तीर्थ-प्रवचनं श्रुतमित्यर्थस्तद्धर्म:स्वाध्यायस्तमवलम्बमानः-आश्रयन् महती बहुतरकर्मविषयत्वानिर्जराऽस्येति महानिर्जरो महत्-महाप्रमाणपर्यवसितत्वेन प्रशस्यं वा मुक्त्यावाप्त्या पर्यवसानम्-अन्तः कर्मणो भवस्य वा यस्य, चस्य गम्यमानत्वान्महापर्यवसानश्च भवति, मुक्तिभागू भवतीति हृदयम्।
मू. (११३३) पडिपुच्छणाए णं भंते ! जीवे किंजणेइ?, २ सुत्तत्थतदुभयाई विसोहेइ, कंखामोहनिजं कम्मं वुच्छिदेइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org