SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२९, [ नि.५१३ ] १५७ पव्वरत्ति, उवट्ठिए नेआउयस्स मग्गस्स संजमबहुले जाव सव्वदुक्खसंखवे तवस्सी, तस्स णं नो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसज्जाए दीहेणं परियाएणं सिज्झति, जहा से भरहे राया चाउरंतचक्कवट्टी ३।" तदन्यस्त्वल्पकर्मा विरतिमवाप्य तथाविधविशुद्धाध्यवसायवशात्तथाविधतपस्तथाविधवेदनाच लब्ध्या झगित्येव मुक्तिमधिगच्छति, यथा मरुदेवी स्वामिनी, तथा च तत्रैवोक्तम्"अहावरे चउत्थे अंतकिरियावत्थू अप्पकम्मे पच्चायाते यावि भवति, समणाउसो ! से ण मुंडे भवित्ता अगाराओ अनगारियं पव्वतिए उवट्ठिए नेयाउयस्स मगस्स संजमबहुले जाव सव्वदुक्खंखवे तवस्सी, तस्स णं तहप्पंगारे तवे भवति तहप्पगारा चेव वेयणा भवति, सेणं तहप्पगारे पुरिसजाए निरुद्धेणं परियाएणं सिज्झइ जाव सव्वदुक्खाणं अंतं करेति, जहा से मरुदेवी भगवतित्ति" पठन्ति च 'अनंतकिरियं आराहणं आराहेति ति" अत्र चाविद्यमानाऽन्तक्रिया- कर्मक्षयलक्षणा तद्भव एव यस्यां साऽनन्तक्रिया तां परम्परामुक्तिफलामित्यर्थः ।। मू.(११२८) कालपडिलेहणाए णं भंते ! जीवे किं जणेइ?, २ नाणावरणिज्जं कम खवेइ॥ वृ. अर्हद्वन्दनानन्तरं स्वाध्यायो विधेयः, स च काल एव, तत्परिज्ञानं च कालप्रत्युपेक्षणापूर्वकमिति तामाह-काल:-प्रादोषिकादिस्तस्य प्रत्युपेक्षणा-आगमविधिना यथावन्निरूपणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया, ज्ञानावरणीयं कर्मक्षपयति, यथावत्प्रवृत्त्या तथाविधशुभभावसम्भवेनेतिभावः ।। मू. (११२९) पायच्छित्तकरणेणं भंते ! जीवे किंजणेइ?, २ पावकम्मविसोहिं जणेइ निरइयारे आविभवइ सम्मं च णं पायच्छितत्ततं पडिवज्जमाणे मागं च मग्गफलं च विसोहेइ आयारं आयारफलंच आराहेई॥ वृ. कथञ्चिदकालपाठे च प्रायश्चित्तं प्रतिपत्तव्यमिति प्रक्रमायातं तत्करणमाह-तत्र पापं छिनत्ति प्रायश्चित्तं वा विशोधयतीति नैरुक्तविधिना प्रायश्चित्तम्, उक्तं हि "पावं छिदति जम्हा पायच्छित्तंति भन्नए तेणं । पाएण वाऽवि चित्तं विसोहए तेन पच्छित्तं ।।"ति, तच्चालोचनादि तस्य करणं-विधानं प्रायश्चित्तकरणं तेन पापकर्मणां विशुद्धि:-अभावः पापकर्मविशुद्धिस्तां जनयति निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात्, सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्गः-इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं "विशोधयति' निर्मलीकुरुते, ततश्चाचर्यत इत्याचार:-चारित्रं तच्च तत्फलं च-मुक्तिलक्षणमाराधयति, न च ज्ञानदर्शनयोर्युगपद्भावभावित्वाद्धेतुफलभावाभाव इति वाच्यं, यत आगमः __ "कारणकज्जविभागो दीवपगासाण जुगवजम्मेवि। जुगवुप्पन्नति तहा हेऊ नाणस्स संमत्तं ॥" यद्वा मार्ग-चारित्रप्राप्तिनिबन्धनतया दर्शनज्ञानाख्यं तत्फलं च चारित्रं तत आचारं चज्ञानाचारादि तत्फलं-मोक्षमारायति, अथवा 'मागंच' मुक्तिमार्ग क्षायोपशमिकदर्शनादि तत्फलं च-तमेव प्रकर्षावस्थं क्षायिकदर्शनादि, शेषं प्राग्वत्, विशोधनाऽऽराधनयोश्च सर्वत्रनिरति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy