SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ १५६ उत्तराध्ययन-मूलसूत्रम्-२-२९/११२७ वृ.अत्र चोत्तरगुणप्रत्याख्यानान्तर्भूतं नमस्कारसहितादि, तद्ग्रहणानन्तरंच यत्र सन्निहितानि चैत्यानि (तत्र) तद्वन्दनं विधेयमित्युक्तं प्राक्, तच्च न स्तुतिस्तवमङ्गलं विनेति तदाह-तत्र स्तवादेवेन्द्रस्तवादयः स्तुतय-एकादिसप्तश्लोकान्ताः, यत उक्तम् ___ "एगदुगतिसिलोगा(थुइओ) अन्नेसिं जाव हुंति सत्तेव। देविदत्थवमाई तेन परं थुत्तया होति ।।"त्ति, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य क्त्यन्तत्वात्पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद्यात्ययनिर्देशः, स्तुतिस्तवा एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिनिदर्शनचारित्रबोधिस्तस्य लाभो ज्ञानदर्शनचारित्रबोधिलाभः, परिपूर्णजिनधर्मावाप्तिरित्यर्थः, तं जनयति, उक्तञ्च "भत्तीए जिनवराणं परमाए खीणपिज्जदोसाणं। ___ आरोगबोहिलाभं समाहिमरणं च पावेंति।।" ज्ञानदर्शनचारित्रलाभबोधिसंपन्नश्च जीवोऽन्तः-पर्यन्तो भवस्य कर्मणां वा तस्य क्रियाअभिनिर्वत्तनमन्तक्रिया, मुक्तिरित्यर्थः, ततश्चान्तक्रियाहेतुत्वादन्तक्रिया ताम्, अन्तक्रियाहेतुत्वं च तद्भवेऽपि स्यादत आह-कल्पा देवलोका विमानानि-गवेयकानुत्तरविमानरूपाणि तेषूपपत्तिर्यस्यां सा कल्पविमानोपपत्तिका तां, किमुक्तं भवति?-अनन्तरजन्मनि कल्पादिषु विशिष्टदेवत्वावाप्तिफलां परम्पराया तु मुक्तिप्रापिकाम् 'आराधना' ज्ञानाद्याराधनात्मिकाम् 'आराधयति' साधयति, इयं चैवंविधाऽऽराधना तपस्वितायामपितथाविधगुरुकर्माणं तथाविधकर्मवेदनाऽभाववन्तं च जीवमपेक्ष्योक्ता, अन्तक्रियाभाजनं च जीववस्तु चतुर्धा भवति, तथाहि-कश्चित्प्रतिपद्यापि श्रामण्यं पालयन्नपि संयमंतथाविधगुरुकर्मतया तथाविधविशिष्टाध्यवसायासम्भवेन तथाविधकर्मवेदनाया अभावाना तद्भव एव मुक्तिभाग भवति, किन्तु भवान्तरे दीर्धपर्यायावाप्त्या, यथा सनत्कुमारचक्री, तथा च स्थानङ्गम्___ "तत्थ खलु इमे पढमे अंतकिरियावत्थू-महाकम्मे पच्चायाए यावि भवति, समणाउसो ! से णं समणे भवेत्ता अगाराओ अनगारं पव्वइओ उवट्ठिए नेयाउयस्स मग्गस्स संजमबहुले समाहिबहुले(संवरबहुले) लूहे तीरट्ठीओ उवहाणवं दुक्खंखवे तवस्सी, तस्स णं तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसज्जाए दीहदीहेणं परियारणं सिज्झइ बुज्झइ मुच्चइ परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी पढमा अंतकिरियावत्थू १। ___ अहावरे दोच्चे अंतकिरियावत्थू महाकम्मा पच्चायाए आविभवति समणाउसो ! से णं मुंडे भवित्ता अगारातो अनगारियं पव्वयाइ, उवट्ठिए नेयाउयस्स जाव उवहाणवं दुक्खं खवेइ तवस्सी, तस्स णं तहप्पगारे तवे भवति, तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसजाए भवति, निरुद्धणं परियारणं सिझति जाव सव्वदुक्खाणमंतं करेति जहा से गयसुकुमाले" अपर: पुनरल्पकर्मा श्रामण्यमवाप्य तथाविधतपसस्तथा वेदनायाश्चाभावात्तदभवभाविना दीर्घपर्यायेण निर्वाणमाप्नोति, यथा भरतश्चक्रवर्ती, यथोक्तम्-"अहावरेतच्चे अंतकिरियावत्थू अप्पकम्मे पच्चावाए यावि भवति, समणाउसो ! से णं मुंडे भवित्ता अगाराओ अनगारियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy