________________
१५९
अध्ययनं-२९,[ नि.५१३]
वृ. गृहीतवाचनेनापि संशयाधुत्पत्तौ मुदा प्रष्टव्यमिति प्रतिप्रच्छनावसर इति तामाह- तत्र प्रथमं कथितस्य सूत्रादेः पुनः प्रच्छन्न प्रतिप्रच्छन्नं तेन सूत्रार्थतदुभयानि विशोधयति, संशयादिमालिन्यापनयनेन विशुद्धानि कुरुते, तथा कासा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहयति 'अन्यत्रापी'ति वचनादनीयरि काङ्क्षामोहनीयं कर्म अनभिग्रहिकमिथ्यात्वरूपं 'व्युच्छिनत्ति' विशेषेणापनयति।
मू.(११३४) परियट्टणयाए णं भंते ! जीवे किंजणेइ?, २ वंजणाइंजणेइ वंजणलद्धिं च उप्पाएइ॥
वृ.इत्थं विशोधितस्यापि सूत्रस्य मा भृद्विस्मरणमिति परावर्तनाऽवसरः, तत्र च 'परिवट्टणाए'त्ति सूत्रत्वापरावर्तना-गुणनं तया व्यज्यते एभिरर्थ इति व्यञ्जनानि-अक्षराणि 'जनयति' उत्पादयति, तानि हिविगलतान्यपि गुणयतो झगित्युत्पतन्तीत्युत्पादितान्युच्यन्ते, तथा तथाविधकर्मक्षयोपशमतो व्यञ्जनलब्धि, चशब्दाद् व्यञ्जनसमुदायात्मकत्वाद्वा पदस्य तल्लब्धि च पदानुसारितालक्षणमुत्पादयति ।।
मू.(११३५) अनुप्पेहाएणं भंते! जीवे किंजणेइ?, २ आउयवज्जाओसत्त कम्मपयडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालटिईयाओ हस्सकालटिईयाओ पकरेइ, तिव्वानुभावाओ मंदानुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसगाओ पकरेइ, आउंच णं कम्मं सियं बंधइ सिय नोबंधइ, अस्सायावेयनिजं च णं कम्मं नो भुज्जो भुज्जो उवचिनइ, अनाइयं च णं अनवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीइवयइ॥
वृ. सूत्रवदर्थेऽपि संभवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षा प्रस्तावात्सूत्रानुप्रेक्षा-चिन्तनिका तया प्रकृष्टशुभभावोत्पत्तिनिबन्धनतयाऽऽयुष्कवर्जाः सप्त कर्मप्रकृतिः 'घणियं ति बाढं बन्धनं-श्लेषणं तेन बद्धा निकाचिता इत्यर्थः 'शिथिलबन्धनबद्धाः' किञ्चिन्मुत्कलाः, कोऽर्थ: ?-अपवर्तनादिकरणयोग्याः प्रकरोति, तपोरूपत्वादस्याः, तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात्, उक्तं हि-"तवसा उनिकाइयाणंपि"त्ति, दीर्घकालस्थितिका हस्वकालस्थितिकाः प्रकरोतीति, शुभाध्यवसायवशात्स्थितिस्व(क)ण्डकापहारेणेति भावः, एतच्चैवं, सर्वकर्मणामपि स्थितेरशुभत्वात्, यत उक्तम्
"सव्वासिपि ठितीओ सुभासुभाणंपि होंति असुभाओ।
माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ।।" तीव्रानुभावाश्चतुःस्थानिकरसत्वेन मन्दानुभावाः त्रिस्थानिकरसत्वाद्यापादनेन प्रकरोति, इह चाशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभाशुभतीवा(व्रमन्दा)नुभावहेतुत्वात्, उक्तं हि"सुभयपयडीण विसोही(ए)तिव्वमसुभाण संकिलेसेणं ।
अनं हिऽविसोहीए"त्ति, शुभभावेन तीव्रमित्यनुभागं बन्धातीति प्रक्रमः, क्वचिदिमपि दृश्यते-"बहुपएसग्गाओ अप्पपएसग्गातो करेति" ननु केनाभिप्रायेणायुष्कवर्जा: सप्तेत्यभिधानं?, शुभायुष एव सयतस्य सम्भवात्, तस्यैव चानुप्रेक्षा तात्त्विकी, न च शुभभावेन शुभप्रकृतीनां शिथिलतादिकरणं, संक्लेशहेतुकत्वात्तस्य, आहशुभायुर्बन्धोऽप्यस्याः किं न फलमुक्तम्?, उच्यते, आयुष्कं च कर्म स्याद्वन्धाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org