SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ १४८ उत्तराध्ययन-मूलसूत्रम्-२-२९/१११२ गृहीतावेव भवत' इति न्यायतो वा द्वयमप्यनादृत्याप्रमादश्रुतनिक्षेपमभिधातुमाह - नि. [५०८] निक्खेवो अपमाए चउवि० ।। नि. [५०९] जाणगर्भाव यारीरे तव्वइरिते अमित्तभाईसु। भावे अन्नाणअसंवराईसु होइ नायव्वो।। नि. [५१०] निक्खेवो अपमाए चउवि०॥ नि. [५११] जाणगभवियसरीरे तव्वइरित्ते असो उपंचविहो । अंडयबोंडयवालय वागय तह कीडए चेव !! नि. [५१२] भावसुअंपुन दुविहं सम्मसुअंचेव होइ मिच्छसुयं । ___ अहियारो सम्मसुए इहमज्झयणमि नायव्यो ।। वृ.गाथापञ्चकं प्राय: प्रतीतार्थमेव, नवरम् 'अमित्तमाईसुत्ति अमित्राः-शत्रवः आदिशब्दाद्यालादिपरिग्रहस्तेषु योऽप्रमादः स तद्यतिरिक्तोऽप्रमाद उच्यते, द्रव्यत्वं चास्य तथाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा, 'भाव' इति भावे विचार्ये अज्ञानं-मिथ्याज्ञानमसंवर:--अनिरुद्धाश्रवता, आदिशब्दात्कषायापरिग्रहः, एतेषु प्रक्रमादप्रमादः-एतज्जयं प्रति सदा सावधानतारूपो भवति ज्ञातव्यः । तथा 'सो उपंचविधो'त्ति, स इति तत्-तद्यतिरिक्तसूत्रं 'तुः'पुनरर्थे पञ्चविधं' पञ्चप्रकारं, पञ्चविधत्वमेवाह-'अण्डजं' हंसाद्यण्डकेभ्यो यज्जायते यथा क्वचित्पट्टसूत्र, पौण्डकं(बोण्डज) यद्वमनितिन्दुकोद्भवं यथा कससूत्रं, वालजं यदूरणकादिकेशोत्पन्नं यथोर्णासूत्रं, वाकजं-सनातस्यादिवाकेभ्यो यज्जायते यथा सनसूत्रं, कीटजं च यत्तथाविधकोटेभ्यो लालात्मकं प्रभवति यथा पट्टसूत्रं, तथा 'सम्यक् श्रुतम्' अङ्गप्रविष्टादि 'मिथ्या श्रुतं' कनकसप्तत्यादि, अधिकार:-प्रकृतं सम्यक् श्रुतेन, सुब्व्यत्ययातृतीयार्थ सप्तमी, 'इह' अध्ययने 'ज्ञातव्यः' अवबोद्धव्यः, तद्रूपत्वादस्येति गाथापञ्चकार्थः । सम्प्रति गौणतामेवास्य नाम्नो वक्तुमाहनि. [५१३] सम्मत्तमप्पमाओ इहमज्झयणमि वन्निओ जेणं । तम्हेयं अज्झयणं नायव्वं अप्पमायसुअं॥ वृ. 'सम्मत्त'ति सुब्व्यत्ययात्सम्यक्त्वे उपलक्षणत्वाज्ज्ञानादिषु चाप्रमाद उक्तन्यायेन संवेगादिफलोपदर्शनतः काक्वा तदनुष्ठानं प्रत्युद्यमदर्शनेन वा 'इहमज्झयणंमि'त्ति इहाध्ययने वर्णितो येन तस्मादेतदध्ययनं ज्ञातव्यम् 'अप्रमादश्रुतं' अप्रमादश्रुतनामकमिति गाथार्थः ।। गतो नामनिष्पत्रनिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (१११२) सुअं मे आउसंतेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामऽज्झयणे समणेणं भगवया महावीरेण महावीरेणं कासवेणं पवेइए जं सम्मं सदहइत्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अनुपालइत्ता बहवे जीवा सिझति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति ।। क्.'श्रुतम् आकणितं 'मे' मया आयुष्मन्निति शिष्यामन्त्रणम, एतच्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, 'तेने ति यः सर्वजगत्प्रतीतः, तेनापि कीदृशेत्याह-'भगवता' समग्रैश्वर्यादिमता प्रक्रमान्महावीरेण एव'मिति वक्ष्यमाणप्रकारेण 'आख्यातं' कथितं, तमेव प्रकारमाह-'इह' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy