SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२८,[ नि. ५०६] १४७ सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो। तिबेमि वृ. 'क्षपयित्वा' क्षयं नीत्वा 'पूर्वकर्माणि' पूर्वोपचितज्ञानावरणादीनि संयमः-सम्यक् पापेभ्य उपरमणं चारित्रमित्यर्थस्तेन तपसा' उक्तरूपेण चशब्दाज्ज्ञानदर्शनाभ्यां च, नन्वेवमनन्तरं तपस एव कर्मक्षपणहेतुत्वमुक्तम्, इह तु ज्ञानादीनामपीति कथं न विरोध?, उच्यते, तपसोऽप्येतत्पूर्वकस्यैव क्षपणहेतुत्वमिति ज्ञापनार्थमित्थभिधानाम्, अत एव मोक्षमार्गत्वमपि चतुर्णामप्युपपन्नं भवति, ततश्च 'सव्वदुक्खप्पहीणट्ठत्ति प्राकृतत्वात्प्रकर्ण हीनानि-हानिं गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन् यद्वा सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिंस्तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्त इवार्थयन्ते सर्वार्थेच्छोपरमेऽपि तद्गामितया ये ते तथाविधाः 'प्रक्रामन्ति' भृशं गच्छन्ति अथवा प्रहीणानि वा सर्वदुःखान्याश्च-प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः, महेसिणो'त्ति महर्पयो महैषिणो वा प्राग्वन्महामुनय इति सूत्रार्थः ।। 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ।। अध्ययनं २८ समासम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे अष्टाविंशमध्ययनं सनियुक्तिः सटीकं परिसमाप्तम् अध्ययनं २९ सम्यक्त्वपराक्रम वृ. व्याख्यातमष्टाविंशमध्ययनमेकोनत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ज्ञानादीनि मुक्तिमार्गत्वेनोक्तानि, तानि च संवेगादिमूलान्यकर्मताऽवसानानि च तथा भवन्तीति तानीहोच्यन्ते, यद्वाऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता इह पुनरप्रमाद एव तत्प्रधानोपायो, ज्ञानादीनामपि तत्पूर्वकत्वादिति, स एव वर्ण्यते, अथवाऽनन्तराध्ययने मुक्तिमार्गगतिरुक्ता, सा च वीतरागत्वपूविकेति यथा तद्भवति तथाऽनेनाभिधीयते, इत्यनेन सम्बन्धवयेणायातमिदमध्ययनम्, अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि व्यावर्ण्य नामनिष्पन्ननिक्षेपोऽभिधेयः, स च नामपूर्वक इत्येतनामनिर्देशायाह नियुक्तिकृत्नि. [५०७] आयाणपएणेयं सम्मत्तपक्कमति अज्झयणं । गुन्नं तु अप्पमायं एगे पुण वीयरागसुयं ।। वृ. आदीयत इत्यादानाम्-आदिः प्रथममित्यर्थः, तच्च तत्पदं च-नीराकाङ्क्षतयाऽर्थगमकत्वेन वाक्यमेवादानपदंतेन, उपचारतश्चेह तदभिहितमपि तथोक्तं, तत आदानप्रदाभिहितेन प्रक्रमानाम्ना 'इद'मिति प्रस्तुतं सम्यक्त्वपराक्रममिति:-उपदर्शने, उच्यत इति शेषः 'अध्ययनं' प्रागुक्तनिरुक्तं, वक्ष्यति हि-"इहखलु सम्मत्तपरक्कमे णामऽज्झयणे पन्नत्ते'त्ति, गुणैर्हि निर्वृत्तं गौणं तुः' अवधारणे गौणमेव, अप्रमाद इत्युपलक्षणत्वाद् अप्रमादश्रुतम्, एके पुनर्वीतरागश्रुतं, कोऽर्थः ?-संवेगादयोऽत्र वर्ण्यन्ते, तद्रूप एव च तत्त्वतोऽप्रमाद इति तदभिधायिश्रुतरूप-- त्वादप्रमादश्रुतमिति ब्रुवते, अन्ये त्वप्रमादोऽपि वीतरागताफल इति तत्प्रधान्याश्रयणतो वीतरागश्रुतमिति गाथार्थः । अत्र चादानपदनाम्नः सूत्रान्तर्गतत्वात्सूत्रस्पर्शिकनिर्युक्तेरेव तत्र व्यापार इति तदुपेक्ष्य वीतरागश्रुतनाम च तस्य केषाञ्चिदेवाभिमतत्वात् 'मध्यग्रहणे आद्यन्तौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy