________________
१४६
उत्तराध्ययन-मूलसूत्रम्-२-२८/११०८ अनुपरिहारगभावं चरंति कट्ठियत्तं च ।।६।। एवेसो अट्ठारसमासपमानो उ वन्निओ कप्पो। संखेवओ विसेसो विसेससुत्ताउ नेयव्यो ।।७।। कप्पसमत्तीय तयं जिनकप्पं वा उवेंति गच्छं वा। पडिवज्जमाणगा पुन जिनस्सगासे पवज्जंति ।।८।। तित्थयरसमीवासेवगस्स पासे नो य अन्नस्स।
एएसिं जं चरणं परिहारविसुद्धिगं तं तु ।।९।। 'सुहुमं तह संपरायं च त्ति, 'तथे' त्यानन्तर्ये, छन्दोभङ्गतया चै(भयाच्चै)वमुपन्यस्तः, सूक्ष्मः-किट्टीकरणतः संपर्येति-पर्यटति अनेन संसारमिति संपरायो- लोभाख्यः कषायो यस्मिस्तत्सूक्ष्मसम्परायम्, एतच्चोपशम श्रेणिक्षपक श्रेण्योर्लोभाणुवेदनसमये संभवति, यत उक्तम्
"लोभाणुं वेदंतो जो खलु उवसामओ व खमओ व।
सो सुहुमसंपरायो अहखया ऊणओ किंचि ।।" तथा 'अकषायम्' अविद्यमानकपायं क्षपितोपशमितकपायावस्थाभावि, इह चोपशमितकषायावस्थायामकषायत्वं कषायाकार्याभावात्, 'यथाख्यातम्' अर्हत्कथितस्वरूपानतिक्रमवत्, 'छास्थस्य' उपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनः “जिनस्य वा' केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः, वी समुच्चये, यथैतत्पञ्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह-'एतद्' अनन्तरोक्तं सामायिकादि चयस्य-राशेः प्रस्तावात्कर्मणां रिक्तंविरेकोऽभाव इतियावत् तत्करोतीत्येवंशीलं चयरिक्तकरं चारित्रमिति नैरुक्तो विधिः, आहवक्ष्यति "चरित्तेण निगिण्हाति तवेण य वि(परि)सुज्झति'त्ति कथं न तेनास्य विरोधः?, उच्यते, तपसोऽपि तत्त्वतश्चारित्रान्तर्गतत्वात, भवति 'आख्यातं' कथितमहदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ सम्प्रति तपश्चतुर्थं कारणमाहमू.(११०९) तवो अदुविहो वुत्तो, बाहिर भतरो तहा।
बाहिरो छब्विहो वुत्तो, एवमभितरो तवो।। वृ. तपश्च द्विविधमुक्तं, 'बाहिर'त्ति बाह्यमाभ्यन्तरं, तथा तत्र बाह्यं पड्विधमुक्तमेवामितिपड्विधमाभ्यन्तरं तप उक्तमिति सूत्रार्थः, भावार्थस्तु तपोऽध्ययन, एवाभिधास्यते । आहएषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः?, उच्यतेमू.(१११०) नाणेन जाणइ भावे, संमत्तेण य सद्दहे।
चरितेन निगिण्हाइ, तवेण परिसुज्झई। वृ. ज्ञानेन' मत्यादिना जानाति' अवबुध्यते 'भावान्' जीवादीन् ‘दर्शनेन च' उक्तरूपेण 'सद्दहि'त्ति श्रद्धत्ते चारित्रेण-अनन्तराभिहितेन 'निगिण्हाति'त्ति निराश्रवो भवति, पठ्यते च'न गिण्हति'त्ति, तत्र 'न गृह्णाति' नादत्ते कर्मेति गम्यते 'तपसा परिशुद्धति' पुरोपचितकर्मक्षपणतः शुद्धो भवति, उक्तं हि-"संजमे अनण्यहफले तवे वोदाणफले"त्ति, इति सूत्रार्थः ।।
अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति तत्फलभूतां गतिमाहमू. (११११) खवित्ता पुव्वकम्माई, संजमेण तवेण य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org