________________
अध्ययनं-२८,[नि.५०६]
१४५ भक्तपानादिनोचितप्रतिपत्तिकरणं तच्च प्रभावना च-तथा तथा स्वतीर्थोन्नतिहेतु चेष्टासु प्रवर्त्तनात्मिका वात्सल्यप्रभावने, उपसंहारमाह-अष्टैते दर्शनाचारा भवन्तीतिवशेषः, एभिरेवाष्टभिराचार्यमाणस्यास्योक्तफलसम्पादकतेति भावः, एतच्च ज्ञानाचाराधुपलक्षक, यद्वा दर्शनस्यैव यदाचारभिधानं तदस्यैवोक्तन्यायेन मुक्तिमार्गमूलत्वसमर्थनार्थमिति सूत्रार्थः ।।
इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय पुनस्तमेव चारित्ररूपमुपदिदर्शयिषुर्भेदकथनत एव तत्स्वरूपमुपदर्शितं भवतीति मन्वान इदमाहमू.(११०७) सामाइयऽत्थ पढमं छेदोवडावणं भवे बितियं।
परिहारविसुद्धीयं सहमंतह संपरायं च ।। मू.(११०८) अकसाय अहक्खायं, छउमत्थस्स जिनस्स वा।
एयं चयरित्तकरं, चारितं होइ आहियं ।। वृ. समिति-साङ्गत्येनैकीभावेन वा आयो-गमनं, कोऽर्थः?-प्रवर्त्तनं, समायः सप्रयोजनमस्य सामायिक, तदस्य प्रयोजन"मिति ठक, तच्च सकलसावद्यपरिहार एव, तत्रैव सति साङ्गत्येन स्वपरविभागाभावेन च सर्वत्र प्रवृत्तिसम्भवात्, यद्वा समो-रागद्वेषविरहितः स चेह प्रस्तावाच्चित्तपरिणामस्तस्मिन्नायो-गमनं समायः स एव सामायिकं, विनयादेराकृतिगणत्वात्स्वार्थिक: ठक, इदमपि सर्वसावद्यविरतिरूपमेव, चेति पूरणे, 'प्रथमम्' आद्यम्, एतच्च द्विधा-इत्वरं यावत्कथिकं च, तत्वरं भरतैरावतयोः प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनीयचारित्रभावेन तत्र तद्यपदेशाभावात्, यावत्कथिकं च तयोरेव मध्यमतीर्थकरतीर्थेष महाविदेहेष चोपस्थापनामाय अभावेन तद्यपदेशस्य यावज्जीवमपि सम्भवात. तथा छेदः-सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपस्तुद्युक्तोपस्थापना महाव्रतारोपणरूपा यस्मिस्तच्छेदोपस्थापनं भवेद्वितीयम्, तथा परिहरणं परिहारो विशिष्टतपोरूपस्तेन विशुद्धिस्मिन्निति परिहारविशुद्धिकं, तच्चैतद्गाथाभ्योऽवसेयम्
"परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो।
सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥१॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झमओ। अट्ठममिहमुक्कोसो इत्तो सिसिरे पवक्खामि ||२|| सिसिरे उजहन्नाई छट्ठाई दसमचरमगो होई।
वासासु अट्ठमाई बारसपज्जंतगो नेओ॥३|| पारणए आयाम पंचसु पगहो दोसऽभिग्गहो भिक्खो। कप्पट्टिया य पइदिण करेंति एमेव आयामं ॥४॥ एवं छम्मासतवं चरिउं परिहारिया अनुचरंति। अनुचरगे परिहारगयपयट्ठिए जाव छम्मासा ।।५।।
कप्पट्ठिओऽवि एवं छम्मासतवं करेइ सेसा उ। 129/10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org