________________
१४४
उत्तराध्ययन-मूलसूत्रम्-२-२८/११०३ सूत्रार्थः ।। इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय सम्प्रति तस्यैव माहात्म्यमुपदर्शयन्निदमाहमू.(११०४) नत्थि चरितं संमत्तविहूणं दंसणे उ भइयव्यं।
संमत्तचरिताई जुगवं पुवं व संमत्तं ।। मू.(११०५) नादंसणिस्स नाणं नानेन विना न हुँति चरणगुणा।
अगुणिस्स नत्थि मुक्खो नत्थि अमुक्खस्स निव्वाणं ।। वृ. 'नास्ति' न विद्यते उपलक्षणत्वान्नासीन च भविष्यति, किं तत् ?-चारित्रं कोडक् ? - 'सम्यक्त्वविहीनं' दर्शनेन विरहितं, किमुक्तं भवति?-यावन्न सम्यक्त्वोत्पादो न तावच्चारित्रं, किमेवं दर्शनमपि चारित्रे नियतमित्याह-'दर्शने तु' सम्यक्त्वे पुनः सति भक्तव्यं- भवति वा न वा, प्रक्रमाच्चारित्रम्, अतो न तत्तत्र नियतं, किमित्येवमत आह-सम्यक्त्वचारित्रे 'युगपद्' एककालमुत्पद्येते इति शेषः । 'पुव्वं वत्ति पूर्वं चारित्रोत्पादात् सम्यक्त्वमुत्पद्यते ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्यक्त्वे न चारित्रमिति तद्दर्शने भाज्यमुच्यते।
अन्यच्च “नादर्शनिनः' दर्शनविरहितस्य 'ज्ञान'मिति सम्यग्ज्ञानं 'ज्ञानेन विना' ज्ञानविरहिताः न भवन्ति' न जायन्ते, के ते?-चरणगुणाः, तत्र च चरणं-व्रतादि गुणा:-पिण्ड-- विशुद्धादयः, अगुणिन:' अविद्यमानगुणस्य चरणविनाभावित्वाद्यथोक्तगुणानामाविद्यमानचरण च, यदिवा प्राक् चरणान्तर्गता गुणाश्चरणगुणा इति व्याख्यातास्तत इहापि त एव गृह्यन्ते, नास्ति मोक्षः सकलकर्मक्षयलक्षणो, नास्त्यमुक्तस्य कर्मणेति गम्यते 'निवार्ण' निर्वृत्तिर्मुक्ति-- पदप्राप्तिरितियावत्, तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चारित्रस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तम्, अनन्तरसूत्रेण तूतरोत्तरव्यतिरेकदर्शनिना शेषगुणानां, व्यतिरेकस्यान्वयाक्षेपकत्वादिति सूत्रद्वयार्थः ।।
अस्य चाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति तानादर्शयितुमाहमू.(११०६) निस्संकिय निकांखिय निवितिगिच्छं अमूढदिट्ठी य।
उववूहथिरीकरणं वच्छल्लपभावणेऽद्रुते ।। वृ. शङ्कनं शङ्कितं-देशसर्वशङ्कात्मकं तस्याभावो नि:शङ्कितं, एवं कात्रणं काङ्कितंयुक्तियुक्तत्वादहिंसाद्यभिधायित्वाच्च शाक्योलूकादिदर्शनान्यपि सुन्दराण्येवेत्यन्यान्यदर्शनग्रहात्मकं तदभावो निष्कासितं, प्राग्वदुभयत्र बिन्दुलोपः, विचिकित्सा-फलं प्रति सन्देहो यथा-किमियत: क्लेशस्य स्यादुत नेति?, तन्त्रन्यायेन 'विदः' विज्ञाः ते च तत्त्वतः साधव एव तज्जुगुप्सा वा यथा-किममी यतयो मलदिग्धदेहा:?,प्रासकजलस्नाने हि क इव दोष: स्यादित्यादिकानिन्दा तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्षत्वाच्च सूत्र एवं पाठः, 'अमूढा' ऋद्धिमत्कृतीर्थिकदर्शनेऽप्यनवगीतमेवास्मदर्शनमिति मोहविरहिता सा चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽप्यान्तर आचार:, बाह्यं त्वाह
"उववूह'त्ति, उपबृंहणमुपळहा-दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिवचोभिस्तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणंच -अभ्युपगम (त) धर्मानुष्ठानं प्रति विषीदतां स्थैर्यापादनमंपबृंहास्थिरीकरणे, वत्सलभावो वात्सल्यं-सार्मिकजनस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org